________________
विवत्ती बंभचेरस्स, पाणाणं च वहे वहो । वणीमगपडिग्घाओ, पडिकोहो अगारिणं ॥२६६॥
विवत्तित्ति, विपत्तिब्रह्मचर्यस्य-आज्ञाखण्डनादोषतः साधुसमाचरणस्य, प्राणिनां च वधे वधो भवति, तथा सम्बन्धादाधाकादिकरणेन, वनीपकप्रतीघातस्तदाक्षेपणादित्साऽभिधानादिना, प्रतिक्रोधश्चागारिणां तत्स्वजनानां च स्यात् तदाऽऽक्षेपदर्शनेनेति ॥२६६।।
अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणं । कुसीलवड्ढणं ठाणं, दूरओ परिवज्जए ॥२६७॥
तथा अगुत्तित्ति, अगुप्तिब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति एतत्प्रफुल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानं-तदुक्तेन प्रकारेणासंयमवृद्धिकारकं, दूरतः परिवर्जयेत्-परित्यजेदिति ॥२६७॥
सूत्रेणैवापवादमाहतिहमन्नयरागस्स, निसिज्जा जस्स कप्पई । जराए अभिभूअस्स, वाहिअस्स तवस्सिणो ॥२६८॥
तिण्हति, त्रयाणां वक्ष्यमाणलक्षणानां अन्यतरस्य एकस्य निषद्या गोचरप्रविष्टस्य गृहे यस्य कल्पते औचित्येन, तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य पुनः कल्पत इत्याह-जरयाऽभिभूतस्याऽत्यन्तवृद्धस्य, व्याधिमतः-अत्यन्तमशक्तस्य, तपस्विनो-विप्रकृष्टक्षपकस्य, एते च भिक्षाटनं न कार्यन्त एव, आत्मलब्धिकाद्यपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः सम्भवन्ति, परिहरन्ति च वनीपकप्रतिघातादीति ॥२६८॥ ___उक्तो निषद्यास्थानविधिः, तदभिधानात्षोडशस्थानं, साम्प्रतं सप्तदशस्थानमाह
श्रीदशवैकालिकम् ।