________________
प्रकटार्थ, अकल्पिकं नेच्छेत्प्रतिगृह्णी-यात्कल्पिकं-यथोचितमिति ॥२५६॥
अकल्पिकं दोषमाहजे निआगं ममायंति, कीअमुद्देसिआहडं । वहं ते समणुजाणंति, इअ उत्तं महेसिणा ॥२५७॥
जेत्ति, ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणो नियागंति नित्यमामन्त्रितपिण्डं ममायंतीति परिगृह्णन्ति, तथा क्रीतमौद्देशिकाहृतमेतानि यथा क्षुल्लकाचारकथायाम् । वधं-त्रसस्थावरादिघातं ते-द्रव्यसाध्वादयः समनुजानन्ति दातृप्रवृत्त्यनुमोदनेनेत्युक्तं महर्षिणावर्द्धमानेनेति ॥२५७॥
तम्हा असणपाणाई, कीअमुद्देसिआहडं । वज्जयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो ॥२५८॥
यस्मादेवं तम्हत्ति, तस्मादशनपानादि चतुर्विधमपि यथोदितं क्रीतमौद्देशिकमाहृतं वर्जयन्ति स्थितात्मानो-महासत्त्वाः निर्ग्रन्थाःसाधवो धर्मजीविनः-संयमैकजीविन इति ॥२५८॥
उक्तोऽकल्पस्तदभिधानात् त्रयोदशस्थानविधिः, इदानीं चतुर्दशस्थानविधिमाह
कंसेसु कंसपाएसु, कुंडमोएसु वा पुणो । भुंजंतो असणपाणाई, आयारा परिभस्सइ ॥२५९॥
कंसेत्ति, कांसेषु-करोटकादिषु, कांस्यपात्रेषुतिलकादिषु, कुण्डमोदेषु-हस्तिपादाकारेषु मृन्मयादिषु, भुञ्जानोऽशनपानादि तदन्यदोषरहितमपि, आचारात्-श्रमणसम्बन्धिनः, परिभ्रश्यति-अपैतीति ॥२५९॥
सीओदगसमारंभे, मत्तधोअणछड्डणे । जाइं छिप्पंति भूआई, दिवो तत्थ असंजमो ॥२६०॥ कथमित्याह-सीओदगत्ति, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते
श्रीदशवैकालिकम् ।