________________
भुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति । तदाह-शीतोदकसमारम्भेसचेतनोदकेन भाजनाधावनारम्भे तत्मात्रक-धावनोज्झने-कुण्डमोदादिषु क्षालनजलत्यागे यानि क्षप्यन्ते-हिंस्यन्ते भूतानि-अप्कायादीनि, सोऽत्रगृहिभाजनभोजने दृष्टः-उपलब्धः, केवलज्ञानभास्वता असंयमस्तस्य भोक्तुरिति ॥२६०॥
पच्छाकम्मं पुरेकम्मं, सिआ तत्थ न कप्पइ । एणमटुं न भुंजंति, निग्गंथा गिहिभायणे ॥२६१॥
किंच पच्छाकम्मंति, पश्चात्कर्म पुरःकर्म स्यात्तत्र-कदाचिद् भवेद् गृहिभाजनभोजने, पश्चात्कर्मपुरःकर्मभावस्तूक्तवदित्येके। अन्ये तु भुञ्जन्तु तावत्साधवो वयं तु पश्चाद्भोक्ष्यामहे इति पश्चात्कर्म, व्यत्ययेन तु पुरःकर्मेति व्याचक्षते । एतच्च न कल्पते धर्मचारिणां, यत एवमेतदर्थं-पश्चात्कादिपरिहारार्थं न भुञ्जन्ते निर्ग्रन्थाः, क्वेत्याहगृहिभाजने अनन्तरोदित इति ॥२६१॥
उक्तो गृहिभाजनदोषस्तदभिधानाच्चतुर्दशस्थानविधिः, इदानीं पञ्चदशस्थानविधिमाह
आसंदीपलिअंकेसु, मंचमासालएसु वा । अणायरिअमज्जाणं, आसइत्तु सइत्तु वा ॥२६२॥
आसंदीति, आसन्दीपर्यको प्रतीतौ तयोरासन्दीपर्यङ्कयोः, मञ्चाशालकयोश्च मञ्चः प्रतीतः, आशालकस्तु-अवष्टम्भसमन्वित आसनविशेषः, एतयोरनाचरितमनासेवितमार्याणां-साधूना-मासितुं-उपवेष्टुं स्वप्तुं वा-निद्रातिवाहनं वा कर्तुं, शुषिरादिदोषादिति ॥२६२।।
अत्रैवापवादमाहनासंदीपलिअंकेसु, न निसिज्जा न पीढए ।
निग्गंथाऽपडिलेहाए, बुद्धवुत्तमहिठ्ठगा ॥२६३॥ श्रीदशवैकालिकम् ।