________________
तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । तसकायसमारंभं, जावजीवाइ वज्जए ॥ २५४ ॥
यस्मादेवं तम्हत्ति, तस्मादेतं विज्ञाय दोषं तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनं संसारवर्धनं त्रसकायसमारम्भं तेन तेन विधिना यावज्जीवमेव वर्जयेदिति ॥ २५४ ॥
-
उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम्, एतत्प्रतिपादनादुक्ता मूलगुणाः, अधुनैतद्वृत्तिभूतोत्तरगुणावसरः, ते चाकल्पादयः षडुत्तरगुणाः, यथोक्तं- "अकप्पो गिहिभायणं" ति, तत्राकल्पो द्विविध:शिक्षकस्थापनाकल्पः अकल्पस्थापना-कल्पश्च । तत्र शिक्षकस्थापनाकल्पोऽनधीतपिण्डनिर्युक्त्यादिनाऽऽनीतमप्याहारादि न कल्पत इति, उक्तं च - " अणहीया खलु जेणं पिंडेसणसेज्जवत्थपाएसा । तेणाणियाणि जइणो कप्पंति न पिंडमाईणि ॥१॥ उउबद्धमि ण अणला वासावासे उ दोवि णो सेहा । दिक्खिज्जंती पायं ठवणाकप्पो इमो होइ ||२||" अकल्प - स्थापनाकल्पं त्वाह–
जाणि ( इं ) चत्तारि अभुज्जाई, इसिणाऽऽहारमाइणि । ताई तु तु विवज्जंतो, विवज्जंतो, संजमं अणुपालए ॥ २५५ ॥
जाणित्ति, यानि चत्वारि अभोज्यानि संयमापकारित्वेनाकल्पनीयानि, ऋषीणां - साधूनामाहारादीन्याहारवसतिवस्त्रपात्राणि तानि तु विधिना विवर्जयन् संयमं - सप्तदशप्रकारं अनुपालयेत् तदत्यागे संयमा- भावादिति ॥२५५॥
एतदेव स्पष्टयति
पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य । अकप्पिअं न इच्छिज्जा, पडिगाहिज्ज कप्पिअं ॥ २५६ ॥ पिंडंति, पिण्डं शय्यां च वस्त्रं च चतुर्थं पात्रमेव च एतत्स्वरूपं श्रीदशवैकालिकम् ।
१०९