________________
यत एवायं सुसाधुवर्जितोऽनिलसमारम्भः, तम्हत्ति पूर्ववत् ॥२४८॥ उक्तो दशमस्थानविधिः, इदानीं एकादशमाश्रित्योच्यत इति । वणस्सइं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएणं, संजया सुसमाहिआ ॥२४९॥ वणस्सइं विहिंसंतो, हिंसई अ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥२५०॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । वणस्सइसमारंभं, जावजीवाइ वज्जए ॥२५१॥
वणस्सइं इत्यादि सूत्रत्रयं वनस्पत्यभिलापेन ज्ञेयं, ततश्चायमप्युक्त एव ॥२४९-२५१॥
द्वादशस्थानविधिरुच्यतेतसकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएणं, संजया सुसमाहिआ ॥२५२॥
तसकायमिति, त्रसकायं-द्वीन्द्रियादिरूपं न हिंसन्त्यारम्भप्रवृत्त्यादिना प्रकारेण, मनसा वाचा कायेन-तदहित-चिन्तनादिना, त्रिविधेन करणयोगेन-मनःप्रभृतिभिः करणादिना प्रकारेण, संयता:साधवः, सुसमाहिता-उद्युक्ता इति ॥२५२॥
तत्रैव हिंसादिदोषमाहतसकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥२५३॥
त्रसकायं विहिंसन्नारम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव तदाश्रितान्-त्रसाश्रितान् त्रसांश्च विविधान् प्राणिनस्तदन्यद्वीन्द्रियादीन्, चशब्दात् स्थावरांश्च पृथिव्यादीन्, चाक्षुषानचाक्षुषांश्च-चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ॥२५३।। १०८
श्रीदशवैकालिकम् ।