________________
यस्मादेवं तम्हत्ति व्याख्या पूर्ववत् ॥ २४४॥ उक्तो नवमस्थानविधिः, साम्प्रतं दशममाश्रित्याहअणिलस्स समारंभ, बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेअं, नेअं ताईहि सेविअं ॥२४५॥
अणिलस्स-अनिलस्य वायोः समारम्भं - तालवृन्तादिभिः करणं बुद्धा: - तीर्थकरा मन्यन्ते - जानन्ति तादृशं - जाततेज:समारम्भसदृशं, सावद्यबहुलं-पापभूयिष्ठं चैतमितिकृत्वा सर्वकालमेव नैनं त्रातृभिःसुसाधुभिः सेवितं - आचरितं मन्यन्ते बुद्धा एवेति ॥ २४५॥
एतदेव स्पष्टयति
तालिअंटेण पत्तेण, साहाविहुअणेण वा ।
न ते वीइउमिच्छंति, वेआवेऊण वा परं ॥ २४६॥ तालियंटेणंति, तालवृन्तेन पत्रेण शाखाविधूननेन वेत्यमीषां स्वरूपं यथा षड्जीवनिकायिकायां न ते साधवो वीजितु - मिच्छन्त्यात्मानमात्मना, नापि वीजयन्ति परैरात्मानं तालवृन्तादिभिरेव, नापि वीजयन्तं परमनुमन्यन्त इति ॥ २४६ ॥
"
उपकरणात्तद्विराधनेत्येतत्परिहरन्नाह
जंपि वत्थं व पायं वा, कंबलं पायपुंछणं ।
न ते वायमुईरंति, जयं परिहरंति अ ॥२४७॥ जंपित्ति, यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादपुञ्छनममींषां स्वरूपं पूर्वोक्तं धर्मोपकरणं यत्तेनापि न ते वातमुदीरयन्त्यपि, अयतप्रत्युपेक्षणादिक्रियया, किंतु यतं परिहरन्ति परिभोग- परिहारेण धारणाया परिहारेण चेति ॥२४७॥
तम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । वाउकायसमारंभं, जावज्जीवाइ वज्जए ॥ २४८ ॥
श्रीदशवैकालिकम् ।
१०७