SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ जायतेअं न इच्छंति, पावगं जलइत्तए । तिक्खमन्नयरं सत्थं, सव्वओवि दुरासयं ॥२४१॥ जायतेयंति-जाततेजाः-अग्नि तं जाततेजसं नेच्छन्ति, मन:प्रभृतिभिरपि पापकं-पाप एव पापकस्तं, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः । किं नेच्छन्तीत्याह-ज्वालयितुं-उत्पादयितुं वृद्धिं वा नेतुं, किं-विशिष्टमित्याह-तीक्ष्णं-छेदकरणात्मकं, अन्यतरशस्त्रं-सर्वशस्त्रं, एकधारादिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः । अत एव सर्वतोऽपि दुराश्रयं सर्वतोधारत्वेनानाश्रणीयमिति ॥२४१॥ एतदेव स्पष्टयन्नाहपाईणं पडिणं वावि, उट्ठे अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओवि अ ॥२४२॥ पाईणंति, प्राच्या प्रतीच्यां वापि-पूर्वायां पश्चिमायां चेत्यर्थः । ऊर्ध्वमनुदिक्ष्वपि "सुपां सुपो भवन्ती"ति, सप्तम्यर्थे षष्ठी, विदिश्वपीत्यर्थः, । अधो दक्षिणतश्चापि दहति-दाह्यं भस्मीकरोति, उत्तरतोऽपि च, सर्वासु दिक्षु विदिक्षु च दहतीति ॥२४२॥ यतश्चैवमत:भूयाणमेसमाघाओ, हव्वावाहो न संसओ । तं पईवपयावट्ठा, संजया किंचि नारभे ॥२४३॥ भूयाणंति, भूतानां-स्थावरादीनां एष आघातः आघातहेतुत्वादाघातः, हव्यवाह:-अग्नि: न संशय इत्येवमेवैतद् आघात एवेतिभावः । येनैवं तेन तं हव्यवाहं प्रदीपप्रतापनार्थ-आलोकशीतापनोदार्थ संयताः-साधवः किञ्चित्सङ्घट्टनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति ॥२४३॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । तेउकायसमारंभं, जावजीवाइ वज्जए ॥२४४॥ श्रीदशवैकालिकम् । १०६
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy