________________
हिता-उद्युक्ता इति ॥२३५॥
अत्रैव हिंसादोषमाहपुढविकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचखुसे ॥२३६॥
पुढवित्ति, पृथिवीकायं हिंसन्नालेखा(खना)दिना प्रकारेण हिनस्त्येव तुरवधारणार्थो व्यापादयत्येव तदाश्रितान्-पृथिव्याद्याश्रितान् वसांश्च विविधान् प्राणिनो-द्वींद्रियादीन् चशब्दात् स्थावरांश्चाप्कायादीन्, तांश्च चाक्षुषानचाक्षुषांश्च-चक्षुरिन्द्रिय-ग्राह्यानग्राह्यांश्चेति ॥२३६॥
तम्हा एअं विआणित्ता, दोसं दुग्गइवड्डणं । पुढविकायसमारंभं, जावजीवाइ वज्जए ॥२३७॥
यस्मादेवं तम्हत्ति, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसादिलक्षणं दुर्गतिवर्धनं-संसारवर्धनं पृथिवीकायसमारम्भमालेखनादि यावज्जीवमेव वर्जयेदिति ॥२३७॥
उक्तः सप्तमस्थानविधिः, अधुनाऽष्टमस्थानविधिमधिकृत्योच्यतेआउकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिआ ॥२३८॥ आउकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥२३९॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवढ्ढणं । आउकायसमारंभं, जावजीवाइ वज्जए ॥२४०॥
आउक्कायंतीत्यादि, सूत्रत्रयमकायाभिलापेन ज्ञेयं ततश्चायमप्युक्त एव ॥२३८-२४०॥
साम्प्रतं नवमस्थानविधिमाह
श्रीदशवैकालिकम् ।