SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ एवं रात्रिभोजने दोषमभिधायाधुना —– ग्रहणगतमाहउदउल्लं बीअसंसत्तं, पाणा निवडिया महिं । दिआ ताइं विवज्जिज्जा, राओ तत्थ कहं चरे ? ॥२३३॥ उदउल्लंति, उदकार्द्रं-पूर्ववदेकग्रहणे तज्जातीयग्रहणात् सस्निग्धादिपरिग्रहः । तथा बीजसंसक्तं बीजैः संसक्तं मिश्रमोदनादीति गम्यते । अथवा बीजानि पृथग्भूतान्येव संसक्तं चारनालाद्यपरेणेति । तथा प्राणिनः संपातिमप्रभृतयो निपतिता मह्यां पृथिव्यां सम्भवन्ति । ननु दिवाप्येतत्सम्भवत्येव ?, सत्यं, किंतु परलोकभीरुश्चक्षुषा पश्यन् दिवा तान्युदकार्द्रादीनि विवर्जयेत्, रात्रौ तु तत्र कथं चरेत् संयमानुपरोधेन ? असम्भव एव शुद्धचरणस्येति ॥२३३॥ उपसंहरन्नाह एअं च दोसं दट्ठणं, नायपुत्त्रेण भासिअं । सव्वाहारं न भुंजंति, निग्गंथा राइभोअणं ॥२३४॥ एवं चत्ति, एतदनन्तरोदितं प्राणिहिंसारूपं चशब्दादन्यं चात्मविराधनादिलक्षणं च दोषं दृष्ट्वा मतिचक्षुषा ज्ञातपुत्रेण भगवता भाषितं-उक्तं, सर्वाहारं-चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जते निर्ग्रन्थाः - साधवो रात्रिभोजनमिति ॥ २३४ ॥ उक्तं व्रतषट्कं, अधुना कायषट्कमुच्यते, तत्र पृथिवीकायमधिकृत्याह पुढविकायं न हिंसंति, मणसा वयसा कायसा । तिविहेणं करणजोएणं, संजया सुसमाहिआ ॥ २३५ ॥ पुढवित्ति, पृथिवीकायं न हिंसन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन उपलक्षणमेतदत एवाह - त्रिविधेन करणयोगेन मन:प्रभृतिभिः करणादिरूपेण, के न हिंसन्तीत्याह- संयता:- साधवः, सुसमा - १०४ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy