________________
वस्त्रादिना सहापि बुद्धा-यथावद्विदितवस्तुतत्वाः साधवः, संरक्षणपरिग्रह इति-संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः । किंचानेन ?, ते हि भगवन्तः, अप्यात्मनोऽपि देह इति-आत्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगतिं न कुर्वन्ति, ममत्वमात्मीयाभिमानं वस्तुतत्त्वावबोधात्, तिष्ठतु तावदन्यत्, ततश्च देहवदपरिग्रह एवेति ॥२३०॥
उक्तः पञ्चमस्थानविधिः, अधुना षष्ठमधिकृत्याहअहो निच्चं तवोकम्मं, सव्वबुद्धेहिं वण्णिअं । जाव लज्जासमा वित्ती, एगभत्तं च भोअणं ॥२३१॥
अहोत्ति, अहो नित्यं तपः कर्मेति, अहो-विस्मये नित्यं नामअपायाभावेन तदन्यगुणवृद्धिसम्भवादप्रतिपात्येव तपःकर्म-तपोऽनुष्ठानं, सर्वबुद्धः-सर्वतीर्थकरैर्वर्णितं-देशितं, किंविशिष्टमित्याह-यावल्लज्जासमा वृत्तिः-लज्जासंयमः तत्समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः, वर्तनं वृत्तिः-देहपालना, एकभक्तं च भोजनं-एकं भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, द्रव्यत एकं-एकसंख्यानुगं, भावत एकंकर्मबन्धाभावादद्वितीयं, तद्दिवस एव रागादिरहितस्यान्यथा भावतः एकत्वाभावादिति ॥२३१॥
रात्रिभोजने प्राणातिपातसम्भवेन कर्मबन्धसद्वितीयतां दर्शयतिसंतिमे सुहुमा पाणा, तसा अदुव थावरा । जाइं राओ अपासंतो, कहमेसणि चरे ? ॥२३२॥
संति-मेत्ति, सन्त्येते-प्रत्यक्षोपलभ्यमानस्वरुपाः सूक्ष्मा:-श्लक्ष्णाः, प्राणिनो-जीवास्त्रसा-द्वीन्द्रियादयः, अथवा स्थावरा:-पृथिव्यादयो यान् प्राणिनो रात्रावपश्यन् चक्षुषा कथमेषणीयं-सत्त्वानुपरोधेन चरिष्यतिभोक्ष्यते च, असम्भव एव रात्रावेषणीयचरणस्येति ॥२३२॥
श्रीदशवैकालिकम् ।
१०३