________________
आह-यद्येवं वस्त्रादि धारयतां कथं साधुनामसन्निधिरित्यत्राहजंपि वत्थं वा पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जट्ठा, धारंति परिहरंति अ ॥२२८॥
जंपित्ति, यदप्यागमोक्तं, वस्त्रं वा-चोलपट्टकादि, पात्रं वाअलाबुकादि, कम्बलं-वर्षाकल्पादि, पादपुञ्छनं-रजोहरणं, तदपि संयमलज्जार्थमिति, संयमार्थं पात्रादि, तद्व्यतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात्, लज्जार्थं वस्त्रं, तद्व्यतिरेकेणाङ्गनादौ विशिष्टश्रुत-परिणत्यादिरहितस्य निर्लज्जतोपपत्तेः, अथवा संयम एव लज्जा संयमलज्जा तदर्थं सर्वमेतद्वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन परिहरंति च-परिभुञ्जते च मूर्छारहिता इति ॥२२८॥
यतश्चैवमत:न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, इअ वुत्तं महेसिणा ॥२२९॥
न सोत्ति, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो बन्धहेत्वभावात्, केन ?, ज्ञातपुत्रेण-ज्ञात-उदारक्षत्रियः सिद्धार्थस्तत्पुत्रेण वर्धमानेन, त्रात्रा-स्वपरपरित्राणसमर्थेन, अपि तु मूर्छाअसत्स्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो बन्धहेतुत्वात्, अर्थतस्तीर्थकरेण, ततोऽवधार्य इत्येवमुक्तो महर्षिणा-गणधरेण सूत्रे शय्यंभवेनेति ॥२२९॥
आह-वस्त्राद्यभावभाविन्यपि मूर्छा कथं वस्त्रादिभावे साधूनां न भविष्यति ?, उच्यते, सम्यग्बोधेन तद्बीजभूताबोधोपघाताद्, आह च
सव्वत्थुवहिणा बुद्धा, संरक्खणपरिग्गहे । अविअप्पणोऽवि देहमि, नायरंति ममाइयं ॥२३०॥ सव्वत्थत्ति, सर्वत्र-उचिते क्षेत्रे काले च उपधिनाऽऽगमोक्तेन
श्रीदशवैकालिकम् ।
१०२