________________
मूलमेयत्ति, मूलं-बीजमेतदधर्मस्य पापस्येति पारलौकिकोऽपायः । महादोषसमुच्छ्रयं-महतां दोषाणां चौर्यप्रवृत्त्यादीनां समुच्छ्रयंसङ्घातवदिति ऐहिकोऽपायः । यस्मादेवं तस्मान्मैथुनसंसर्ग इति प्राकृतत्वात् मैथुनसंसर्ग-मैथुनसम्बन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति, णमिति वाक्यालङ्कार इति ॥२२५॥
प्रतिपादितश्चतुर्थस्थानविधिः, इदानीं पञ्चमस्थानविधिमाहबिडमुब्भेइमं लोणं, तिल्लं सप्पिं च फाणिअं । न ते संनिहिमिच्छंति, नायपुत्तवओरया ॥२२६॥
बिडमुत्ति, बिडं-गोमूत्रादिपक्वं, उद्भेद्यं-सामुद्रादि यद्वा बिडंप्रासुकं उद्भेद्यम-प्रासुकमपि, एवं द्विप्रकारं लवणं, तथा तैलं सर्पिश्च फाणितं, तत्र तैलं प्रतीतं, सप्पिः-घृतं, फाणितं-द्रवगुडः, एतल्लवणादि एवं प्रकारमन्यच्च न ते साधवः संनिधिमिच्छन्ति-पर्युषितं स्थापयन्ति, ज्ञातपुत्रवचोरताः-भगवद्वर्द्धमानवचसि निस्सङ्गताप्रतिपादनपरे रताः-सक्ता इति ॥२२६॥
संनिधिदोषमाहलोहस्सेस अणुप्फासे, मन्ने अन्नयरामवि । जे सिआ सन्निहिं कामे, गिही पव्वइए न से ॥२२७॥
लोहस्सेत्ति, लोभस्य-चारित्र-विघ्नकारिणश्चतुर्थकषायस्यैषोऽनुस्पर्शः-एषोऽनुभावो यदुत एतत् सन्निधिकरणमिति, यतश्चैवमतो(ऽहं)मन्ये मन्यन्ते प्राकृतशैल्या एकवचनं, एवमाहुः तीर्थकरगणधराः, अन्यतरामपि-स्तोकामपि यः स्यात्, यः कदाचित्सन्निधिं कामयतेसेवते गृहीति-गृहस्थोऽसौ भावतः प्रव्रजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, सन्निधीयते नरकादिष्वात्माऽनयेति, सन्निधिरिति शब्दार्थात् प्रव्रजितस्य च दुर्गतिगमनाभावादिति ॥२२७।। श्रीदशवैकालिकम् ।