________________
चित्तमंतमचितं वा, अप्पं वा जइ वा बहुं । दंतसोहणमित्तंपि, उग्गहंसि अजाइया ॥२२२॥
चित्तमं-तंत्ति, चित्तवत्-द्विपदादि वा अचित्तवद्वा-हिरण्यादि, अल्पं वा-मूल्यतः प्रमाणतश्च, यदि वा बहु-मूल्यप्रमाणाभ्यामेव, किं बहुना ? दन्तशोधन-मात्रमपि तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्वा न गृह्णन्ति साधवः कदाचनेति ॥२२२।।
एतदेवाहतं अप्पणा न गिण्हंति, नोवि गिण्हावए परं । अन्नं वा गिण्हमाणंपि, नाणुजाणंति संजया ॥२२३॥
तमिति, तच्चित्तवदादि आत्मना न गृह्णन्ति विरतत्वान्नापि ग्राहयन्ति परं विरतत्वादेव, तथाऽन्यं वा गृह्णन्तमपि स्वयमेव न अनुजानन्ति-नानुमन्यन्त संयता इति ॥२२३॥
उक्तः तृतीयस्थानविधिः, चतुर्थस्थानविधिमाहअबंभचरिअं घोरं, पमायं दुरहिट्ठिअं । नायरंति मुणी लोए, भेआययणवज्जिणो ॥२२४॥
अबंभत्ति, अब्रह्मचर्यं प्रतीतं, घोरं-रौद्रं रौद्रानुष्ठानहेतुत्वात्, प्रमाद-प्रमादवत् सर्वप्रमादमूलत्वात्, दुरधिष्ठितं-दुराश्रयं दुस्सेवं विदितजिनवचनेनाऽनन्तसंसारहेतुत्वात्, यतश्चैवमतो नाचरन्ति-नासेवन्ते मुनयो लोके-मनुष्यलोके किं विशिष्टा ? इत्याह-भेदायतनवर्जिन:भेदः-चारित्रभेदः तदायतनं-तत्स्थानमिदमेवोक्तन्यायात्तजिनः चारित्रातिचारभीरव इति ॥२२४॥
एतदेव निगमयतिमूलमेयमहम्मस्स, महादोससमुस्सयं ।
तम्हा मेहुणसंसग्गं, निग्गंथा वज्जयंति णं ॥२२५॥ १००
श्रीदशवैकालिकम् ।