________________
सव्वेति, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं, न मर्तुं प्राणवल्लभत्वाद् । यस्मादेवं तस्मात्प्राणवधं घोरं-रौद्रं दुःखहेतुत्वात् निर्ग्रन्थाः-साधवो वर्जयन्ति भावतः । णमिति वाक्यालङ्कारे इति ॥२१९॥
उक्तः प्रथमस्थानविधिः, अधुना द्वितीयस्थानविधिमाहअप्पणट्ठा परट्ठा वा, कोहा वा जइ वा भया । हिंसगं न मुसं बूआ, नो वि अन्नं वयावए ॥२२०॥
अप्प-गट्ठत्ति, आत्मार्थ-आत्मनिमित्तं अग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादि, परार्थं वा-परनिमित्तं वा एवमेव, तथा क्रोधाद्वा त्वं दास इत्यादि, एकग्रहणे तज्जातीयग्रहणमिति मानाद् वा, अबहुश्रुत एवाऽहं बहुश्रुत एवमादि, मायातो भिक्षाटनपरिजिहीर्षया पादपीडा ममेत्यादि, लोभात् शोभनतरान्नलाभे सति प्रान्तस्यैषणीयत्वेऽपि अनेषणीयमिदमित्यादि, यदिवा भयात्किञ्चिद्वितथं कृत्वा प्रायश्चित्तभयान्न कृतमित्यादि, एवं हासादिष्वपि वाच्यं । अत एवाह-हिंसकं-परपीडाकारि सर्वमेव न मृषा ब्रूयात् स्वयं, नाप्यन्यं वादयेत्, एकग्रहणे तज्जातीयग्रहणात् ब्रुवतोऽप्यन्यान्न समनुजानीयादिति ॥२२०॥
किमित्येतदित्याहमुसावाओ उ लोगम्मि, सव्वसाहूहि गरिहिओ । अविस्सासो अ भूआणं, तम्हा मोसं विवज्जए ॥२२१॥
मुसावाउत्ति, मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिर्गहितोनिन्दितः, सर्वव्रतापकारित्वात्, प्रतिज्ञातापालनात् अविश्वासश्चअविश्वसनीयश्च भूतानां मृषावादी भवति, यस्मादेवं तस्मात् मृषावादं वर्जयेदिति ॥२२१॥
उक्तो द्वितीयस्थानविधिः । साम्प्रतं तृतीयस्थानविधिमाहश्रीदशवैकालिकम् ।