________________
निषद्या च-गृहे एकानेकरूपा, स्नान-देशसर्वभेदभिन्नं, शोभावर्जनंविभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसम्बध्यते शोभावर्जनं स्नानवर्जनमित्यादीति ॥२७०॥
गुणा अष्टादशसु स्थानेष्वखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाहतत्थिमं पढमं ठाणं, महावीरेण देसि । अहिंसा निउणा दिट्ठा, सव्वभूएसु संजमो ॥२१७॥
तस्थिमन्ति, तत्राष्टादशविधे स्थानगणे व्रतषट्के वाऽनासेवनाद्वारेणेदंवक्ष्यमाणलक्षणं प्रथमं स्थानं महावीरेण-भगवता अपश्चिमतीर्थकरेण देशितं-कथितं, यदुताऽहिंसेति । इयं च सामान्यतः प्रभूतैर्देशितेत्याहनिपुणा-आधाकाद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, नागमद्वारेण देशिता अपि तु दृष्टा-साक्षाद्धर्मसाधन(क)त्वेनोपलब्धा, किमितीयमेव निपुणेत्याह-यतोऽस्यामेव महावीरदेशितायां सर्वभूतेषु-सर्वभूतविषयः संयमो, नान्यत्र उद्दिश्यकृतादिभोगविधानादिति ॥२१७॥
एतदेव स्पष्टयन्नाहजावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे णोवि घायए ॥२१८॥
जावंतिति, यतो हि भागवत्याज्ञायावन्तः केचन लोके प्राणिनस्त्रसा-द्वीन्द्रियादयः, अथवा स्थावराः-पृथिव्यादयः, तान् जानन् रागाद्यभिभूतो व्यापादनबुद्ध्याऽजानन्वा प्रमादपारतन्त्र्येण न हन्यात्स्वयं, नापि घातयेत् अन्यैः, एकग्रहपे तज्जातीय-ग्रहणात् घ्नतोऽपि अन्यान्न समनुजानीयात् अतो निपुणा दृष्टेति ॥२१८॥
अहिंसैव कथं साध्वीत्येतदाहसव्वे जीवा वि इच्छंति, जीविउं न मरिज्जिउं । तम्हा पाणवहं घोरं, निग्गंथा वज्जयंति णं ॥२१९॥
श्रीदशवैकालिकम् ।