________________
एतदेव संभावयन्नाहसखुड्डगविअत्ताणं, वाहिआणं च जे गुणा । अखंडफुडिआ कायव्वा, तं सुणेह जहा तहा ॥२१५॥
सखुड्डगत्ति, सह क्षुल्लकैः-द्रव्यभावबालैर्ये वर्तन्ते ते व्यक्ताद्रव्यभाववृद्धास्तेषां सक्षुल्लक-व्यक्तानां, सबालवृद्धा-नामित्यर्थः, व्याधिमतां चशब्दादव्याधिमतां च, सरुजानां नीरुजानां चेतिभावः । जे ये गुणा वक्ष्यमाणलक्षणास्तेऽखण्डास्फुटिताः कर्तव्याः, अखण्डा देशविराधनापरित्यागेन अस्फुटिताः सर्वविराधनापरित्यागेन, तत् शृणुत यथा कर्तव्यास्तथेति ॥२१५॥
ते चागुणपरिहारेणाखण्डास्फुटिता भवन्तीत्यगुणास्तावदुच्यन्तेदस अट्ठ य ठाणाई, जाइं बालोऽवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गंथत्ताउ भस्सइ ॥२१६॥
दसेत्ति-दशाष्टौ च स्थानानि-असंयमस्थानानि वक्ष्यमाणलक्षणानि यान्याश्रित्य बाल:-अज्ञोऽपराध्यति तत्सेवनयाऽपराधमाप्नोति । कथमपराध्यतीत्याह-तत्रान्यतरे स्थाने वर्तमानः प्रमादेन निपॅथत्वात्निर्ग्रन्थभावाद् भ्रश्यति निश्चयनयेनापति बाल इति ॥२१६॥
कानि पुनस्तानि स्थानानि ? इत्याह"वयछक्कं कायछक्कं , अकप्पो गिहिभायणं । पलियंकनिसज्जा य, सिणाणं सोहवज्जणं ॥"
(दश० नि० २७०) ॥ वयछक्कन्ति, व्रतषट्कं-प्राणातिपातनिवृत्यादीनि रात्रिभोजनविरतिषष्ठानि षड्व्रतानि, कायषट्कं-पृथिव्यादयः षड्जीवनिकायाः, अकल्पः-शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः, गृहिभाजनं-गृहस्थभाजनं गृहस्थसम्बन्धि कांस्यभाजनादि प्रतीतं, पर्यङ्कः-शयनीयकविशेषः प्रतीतः, श्रीदशवैकालिकम् ।