SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तेसिं सो निहुओ दंतो, सव्वभूअसुहावहो । सिक्खाए सुसमाउत्तो, आयक्खइ विअक्खणो ॥२१२॥ तेसिंति, तेभ्यो राजादिभ्यः, असौ गणी निभृतोऽसम्भ्रान्तः उचितधर्मकायस्थित्या दान्त इन्द्रियनोइन्द्रियदमाभ्यां सर्वभूतसुखावहःसर्वप्राणिहित इत्यर्थः । शिक्षया-ग्रहणासेवनारूपया, सुसमायुक्तः-सुष्ठुएकीभावेन युक्तः, आख्याति-कथयति विचक्षणः-पण्डित इति ॥२१२॥ हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे । आयारगोअरं भीमं, सयलं दुरहिट्ठिअं ॥२१३॥ 'हंदि धम्मत्थ', हन्दी-त्युपप्रदर्शने, तमेनं धर्मार्थकामानामिति, धर्मः-चारित्रधर्मादिस्तस्यार्थः-प्रयोजनं मोक्षस्तं कामयन्ति-इच्छन्तीति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामा-मुमुक्षवस्तेषां निर्ग्रन्थानांबाह्याभ्यन्तरग्रन्थरहितानां श्रृणुत मम समीपात्, आचारगोचरं-क्रियाकलापं भीमं-कर्मशञ्चपेक्षया रौद्रं सकलं-संपूर्ण दुरधिष्ठ(ष्ठितं )-क्षुद्रसत्त्वैर्दुराश्रयमिति ॥२१३॥ इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरकथनोपन्यासः कृतः, साम्प्रतमस्यैवार्थतो गुरुतामाह नन्नत्थ एरिसं वुत्तं, जं लोए परमदुच्चरं । विउलट्ठाणभाइस्स, न भूअं न भविस्सइ ॥२१४॥ नन्नत्थत्ति, न अन्यत्र-कपिलादिमते ईदृशं उक्तमाचारगोचरं वस्तु यल्लोके-प्राणिलोके परमदुश्चरं-अत्यन्त-दुष्करमित्यर्थः । ईदृशं च विपुलस्थानभाजिनः-विपुलस्थानं-विपुल-मोक्षहेतुत्वात् संयमस्थानं तद्भजते-सेवते तच्छीलश्च यः तस्य, न भूतं न भविष्यतीति अन्यत्र जिनमतादिति ॥२१४॥ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy