SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अथ महाचारकथा नाम षष्टं अध्ययनम् । व्याख्यातं पिण्डैषणाध्ययनं, अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने साधोभिक्षाविशोधिरुक्ता, इह तु गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुच्यते, उक्तं च-"गोयरग्गपविट्ठो उ, न निसीएज्ज कत्थइ । कहं च न पबंधेज्जा चिट्ठिताण व संजए ॥१॥" इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति, तच्चेदं नाणदंसणसंपन्नं, संजमे अ तवे रयं । गणिमागमसंपन्नं, उज्जाणम्मि समोसढं ॥२१०॥ नाणदंसणसंपन्नमित्यादि, ज्ञानदर्शनसंपन्नं ज्ञानं-श्रुतज्ञानादि दर्शनंक्षायोपशमिकादि ताभ्यां संपन्न-युक्तं संयमे-पञ्चाश्रवविरमणादौ तपसि च-अनशनादौ. रतं-आसक्तं, गणोऽस्यास्तीति गणी तं गणिनंआचार्य, आगमसंपन्न-विशिष्टश्रुतधरं, बह्वागमत्वेन प्राधान्यख्यापनार्थमेतत् । उद्याने-क्वचित्साधुप्रायोग्ये समवसृतं-स्थितं धर्मदेशनार्थं वा प्रवृत्तमिति ॥२१०॥ तत्किमित्याहरायाणो रायमच्चाय, माहणाअदुवखत्तिआ । पुच्छंति निहुअप्पाणो, कहं भे आयारगोयरो ? ॥२११॥ रायाणोत्ति, राजानः-नरपतयः, राजामात्याश्च-मन्त्रिणः, ब्राह्मणाः प्रतीताः, अदुवत्ति तथा क्षत्रियाः श्रेष्ठ्यादयः पृच्छन्ति निभृतात्मान:असम्भ्रान्ता रचिताञ्जलयः, कथं भे-भवतामाचारगोचरः-क्रियाकलापः स्थित इति ॥२११॥ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy