________________
एयं चेति, एनं दोषं-अनन्तरोदितं सत्यपि श्रामण्ये किल्बिषिकत्वादिप्राप्तिरूपं दृष्ट्वा आगमतो ज्ञातपुत्रेण-भगवता वर्धमानेन भाषितं-उक्तं अणुमात्रमपि-स्तोकमात्रमपि, किमुत प्रभूतं ? मेधावीमर्यादावर्ती, मायामृषावादं-अनन्तरोदितं विवर्जयेत्परिवर्जयेदिति ॥२०८।।
अध्ययनार्थमुपसंहरन्नाहसिक्खिऊण भिक्खेसणसोहिं,
संजयाण बुद्धाण सगासे । तत्थ भिक्खु सुप्पणिहिइंदिए,
तिव्वलज्जगुणवं विहरिज्जासि ॥२०९॥ त्तिबेमि ।
॥ पंचमं पिंडेसणानामज्झयणं समत्तं ॥ सिक्खिऊणत्ति, शिक्षयित्वाऽधीत्य भिक्षैषणाशुद्धिपिण्डमार्गणाशुद्धिमुद्गमादिरूपां, केभ्यः सकाशादित्याह-संयतेभ्यः-साधुभ्यः, बुद्धेभ्योऽवगततत्वेभ्यो गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात् । ततः किमित्याह-तत्र भिक्षैषणायां भिक्षुः-साधुः सुप्रणिहितेन्द्रियःश्रोत्रादिभिर्गाढं तदुपयुक्तस्तीव्रलज्जः-उत्कृष्टसंयमः सन्, अनेन प्रकारेण गुणवान् विहरेत्-सामाचारीपालनं कुर्यात्, ब्रवीमीति पूर्ववदिति ॥२०९॥ || इति पिण्डैषणाध्ययने द्वितीय उद्देशकः समाप्तः ॥ समाप्तं च पिण्डैषणाध्ययनम् ५ ॥
卐t卐
श्रीदशवैकालिकम् ।