________________
तपस्वी-साधुः अत्युत्कर्षः-अहं तपस्वीत्युत्कर्षरहित इति सूत्रार्थः ॥२०१॥
तस्स पस्सह कल्लाणं, अणेगसाहुपूइअं । विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ॥२०२॥ . तस्सत्ति, तस्येत्थंभूतस्य पश्यत कल्याणं-गुण-सम्पद्रूपं संयमम् । किं विशिष्टमित्याह-अनेकसाधुपूजितं पूजितमिति-सेवितमाचरितं, विपुलंविस्तीर्ण विपुलमोक्षावहत्वात् । अर्थसंयुक्तं -तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात्, कीर्तयिष्ये अहं श्रृणुत मे-ममेति ॥२०२।।
एवं तु सगुणप्पेही, अगुणाणं च विवज्जए । तारिसो मरणंतेऽवि, आराहेइ संवरं ॥२०३॥
एवं तु, एवं तु-उक्तेन प्रकारेण स-साधुर्गुणप्रेक्षी-गुणान्-अप्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा अगुणानां च प्रमादादीनां स्वगतानामनासेवनेन परगतानां चाननुमत्या विवर्जकः-त्यागी, तादृशःशुद्धवृत्तो मरणान्तेऽपि-मरण (चरम) कालेऽपि आराधयति संवरंचारित्रं सदैव कुशलबुद्धया तद्बीजपोषणादिति ॥२०३।।
आयरिए आराहेइ, समणे आवि तारिसे । गिहत्थावि ण (एणं) पूयंति, जेण जाणंति तारिसं ॥२०४॥
आयरियएत्ति, आचार्यान् आराधयति, शुद्धभावत्वात् । श्रमणांश्चापि तादृशः समाराधयति, शुद्धभावत्वादेव, गृहस्था अप्येनं-शुद्धवृत्तं पूजयन्ति, किमिति ? येन जानन्ति तादृशं-शुद्धवृत्तमिति ॥२०४॥
तवतेणे वयतेणे, रूवतेणे अ जे नरे ।। आयारभावतेणे अ, कुव्वई देवकिव्विसं ॥२०५॥
स्तेनाधिकार एवेदमाह-तवत्ति, तपस्तेनो वास्तेनो रूपस्तेनश्च यो नरः कश्चिद् आचारभावस्तेनश्च (नामक्षपकरूपश्च) पालयन्नपि क्रियां तथाभावदोषात् करोति देवकिल्बिषं कर्म्म निर्वर्तयतीत्यर्थः, तत्र तपस्तेनो
श्रीदशवैकालिकम् ।