________________
श्चरणपरिणामबाधनेन परमार्थत इति ॥१९७॥
निच्चुव्विगो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसो मरणंतेऽवि, न आराहेइ संवरं ॥१९८॥
निच्चुव्विगोत्ति, स इत्थंभूतो नित्योद्विग्नः-सदा अप्रशान्तो यथा स्तेनः-चौरः आत्मकर्मभिः-स्वदुश्चरितैः दुर्मतिः- दुर्बुद्धिस्तादृशःक्लिष्टचित्तो (सत्त्वो) मरणान्तेऽपि-चरमकालेऽपि नाराधयति संवरंचारित्रं, सदैवाकुशलबुद्धया तद्वीजाभावादिति ॥१९८॥
आयरिए नाराहेइ, समणे आवि तारिसे । गिहत्थावि ण गरिहंति, जेण जाणंति तारिसं ॥१९९॥
तथा आयरिएत्ति आचार्यान् नाराधयत्यशुद्धभावत्वात् श्रमणांश्चापि तादृशो नाराधयत्यशुद्धभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं गर्हन्ति-कुत्सन्ति । किमिति ?, येन जानन्ति तादृशं-दुष्टशीलमिति ॥१९९॥
एवं तु अगुणप्पेही, गुणाणं च विवज्जए। तारिसो मरणंतेऽवि, ण आराहेति संवरं ॥२००॥
एवं तु त्ति, एवं तु उक्तेन प्रकारेण अगुणप्रेक्षी-अगुणान्प्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः । तथा गुणानां चाप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रद्वेषेण विवर्जकः-त्यागी, तादृशःक्लिष्टचित्तो मरणान्तेऽपि नाराधयति संवरं-चारित्रमिति गाथार्थः ॥२००॥
तवं कुव्वइ मेहावी, पणीअं वज्जए रसं । मज्जप्पमायविरओ, तवस्सी अइउक्कसो ॥२०१॥
यतश्चैवमत एतद्दोषपरिहारेण-तवंति, तपः प्रकरोति मेधावीमर्यादावर्ती, प्रणीतं-स्निग्धं वर्जयति रसं-घृतादिकं, न केवलमेतत्करोति अपि तु मद्यप्रमादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः । श्रीदशवैकालिकम् ।