________________
अतिप्रचुरं प्रधानसंक्लेशयोगात् प्रसूते-निवर्तयति पापं, तद्गुरुत्वादेव सम्यगनालोचयन् मायाशल्यं च-भावशल्यं च करोतीति ॥१९४॥
प्रतिषेधान्तरमाहसुरं वा मेरगं वा वि, अन्नं वा मज्जगं रसं । ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ॥१९५॥
सुरं वे ति, सुरां वा-पिष्टादिनिष्पन्नां, मेरकं चापि-प्रसन्नाख्यां, सुराप्रायोग्यद्रव्यनिष्पन्नमन्यं वा, मद्यरसं-सीध्वादिरूपं, ससाक्षिकंसदापरित्यागसाक्षिकेवलिप्रतिषिद्धं न पिबेत् भिक्षुः, अने-नात्यन्तिक एव तत्प्रतिषेधः, सदासाक्षिभावात् । किमिति न पिबेदि-त्याह-यशः संरक्षन्नात्मनः, यशःशब्देन संयमोऽभिधीयते । अन्ये तु ग्लानापवादविषयं एतत् सूत्रमल्पसागारिकविधानेन व्याचक्षत इति ॥१९५।।
अत्रैव दोषमाहपियए एगओ तेणो, न मे कोइ विआणइ । तस्स पस्सह दोसाइं, निअडिं च सुणेह मे ॥१९६॥
पियएत्ति, पिबत्येको-धर्मसहाय-विप्रमुक्त एकान्त-स्थितो वा स्तेनः-चौरोऽसौ भगवददत्तग्रहणात् अन्योपदेशयाचनाद्वा न मां कश्चिज्जानाति विभावयन् तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च निकृतिं च-मायारूपां श्रृणुत ममेति ॥१९६॥
वडई सुंडिआ तस्स, मायामोसं च भिक्खुणो । अयसो अ अनिव्वाणं, सययं च असाहुआ ॥१९७॥
वड्डइत्ति, वर्धते शौण्डिका-तदत्यन्ताभिष्वङ्गरूपा तस्य मायामृषावादं चेत्येकवद्भावः, प्रत्युपलब्धापलापेन वर्धते तस्य भिक्षोः, इदं च भवपरम्पराहेतुरनुबन्धदोषात्, तथाऽयशश्च स्वपक्षपरपक्षयोः, तथा अतृप्तिदुःखं-अनिर्वाणं, तदलाभे सततं चासाधुता लोके व्यवहारत
श्रीदशवैकालिकम् ।