________________
शक्यते । अत एव निर्वाणं च न गच्छति-इहलोके च धृति न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति ॥१९१॥ ___ एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यतेसिआ एगइओ लद्धं, विविहं पाणभोअणं । भद्दगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ॥१९२॥
सियत्ति, स्यादेको लब्ध्वेति पूर्ववत्, विविधं-अनेकप्रकारं पानभोजनं तत्र भिक्षाचर्यागत एव भद्रकं भद्रकं-घृतपूर्णादि भुक्त्वा विवर्ण-विगतवर्णं आम्लखलादि, विरसं-विगतरसं-शीतौदनादि आहरेद्आनयेदिति ॥१९२॥
स किमर्थमेवं कुर्यादित्याहजाणंतु ता इमे समणा, आययट्ठी अयं मुणी । संतुट्ठो सेवए पंतं, लूहवित्ती सुतोसओ ॥१९३॥
जाणंतुत्ति, जानन्तु मां तावत् इमे श्रमणाः-शेषसाधवः यथा आयतार्थी-मोक्षार्थी अयं मुनिः-साधुः सन्तुष्टो-लाभालाभयोः समः सेवते प्रान्तं-असारं, रूक्षवृत्तिः-संयमवृत्तिः, सुतोष्यः-येन केनचित्तोषं नीयत इति ॥१९३॥
एतदेव किमर्थमेवं कुर्यादित्याहपूअणट्ठा जसोकामी, माणसम्माणकामए । बहुं पसवई पावं, मायासल्लं च कुव्वइ ॥१९४॥
पूयणट्ठत्ति, पूजार्थमेवं कुर्वतः स्वपक्ष-परपक्षाभ्यां सामान्येन पूजा भविष्यतीति, यशस्कामी-अहो अय-मिति प्रवादार्थी वा, मानसन्मानकामकः एवं कुर्यात् । तत्र वन्दना-भ्युत्थानलाभनिमित्तो मानो, वस्त्रपात्रादिलाभनिमित्तश्च सन्मान इति । य चैवम्भूतो बहुश्रीदशवैकालिकम् ।