________________
नपुंसकं वा डहरं-तरुणं, महल्लकं वा-वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचयेत्, विपरिणामदोषात्, अन्नाद्यभावेन याचितादाने, न चैनं परुषं ब्रूयात्-वृथा ते वन्दनमित्यादिरिति । पाठान्तरं वा-'वन्दमानो न याचेत लल्लिव्याकरणेन' शेषं पूर्ववदिति ॥१८८॥ . जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे ।
एवमन्नेसमाणस्स सामण्णमणुचि ॥१८९॥
तथा-जे न वंदेत्ति, यो न वन्दते कश्चिद् गृहस्थादिर्न से तस्मै कुप्येत् । तथा वन्दितः केनचिन्नृपादिना न समुत्कर्षेत् । एवं-उक्तेन प्रकारेण अन्वेषमाणस्य-भगवदाज्ञामनुपालयतः, श्रामण्यमनुतिष्ठति अखण्डितमिति सूत्रार्थः ॥१८९।।
स्वपक्षस्तेयप्रतिषेधमाहसिआ एगइओ लद्धं, लोभेण विणिगृहइ । मामेयं दाइयं संतं, दट्ठणं सयमायए ॥१९०॥
सियत्ति, स्यात्-कदाचित् एककः-कश्चिदत्यन्तजघन्यो लब्ब्वोत्कृष्टमाहारं लोभेन-अभिष्वङ्गेण विनिगूहते-अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति । किमित्यत आह-मा मम इदं भोजनजातं दर्शितं सद् दृष्ट्वा आचार्यादिः स्वयमादद्यादात्मनैव गृह्णीयादिति ॥१९०॥
अत्तट्ठागुरुओ लुद्धो, बहुं पावं पकुव्वइ । दुत्तोसओ अ सो होइ, निव्वाणं च न गच्छइ ॥१९१॥
अस्य दोषमाह-अत्तत्ति, आत्मार्थ एव (जघन्यो) गुरुः-(पाप)प्रधानो यस्य स आत्मार्थगुरुः, लुब्धः सन् क्षुद्रभोजने बहु-प्रभूतं पापं प्रकरोति-मायया दारिद्य्कर्मेत्यर्थः । अयं परलोकदोषः । इहलोकदोषमाहदुस्तोषश्च भवति-येन केनचिदाहारेणास्य क्षुद्रसत्त्वस्य तुष्टिः कर्तुं न
श्रीदशवैकालिकम् ।