________________
यावत् सर्वेऽपि ते तु जिनाज्ञया समुत्थिता अन्योन्यसमाधिना एवं च विहरन्ति । अथ एतया एषणया एषन्तं दृष्ट्वा परो वदेद् - आयुष्मन् श्रमण! ऐहि त्वं मासे गते वा यथा वस्त्रैषणायां सूत्रं तथाऽवसेयम् । अथ परो नेता गृहस्थो वदे - आयुष्मन् भगिनि वा! आहर एतत् पात्रं तैलेन वा घृतेन वा नवनीतेन वा वसया वा अभ्यज्य तथैव स्नानादितथैव शीतोदकादिकन्दादि विशोधनं निषिध्य यावदप्रासुकं नो प्रतिगृह्णीयादिति पूर्ववन्नेयम् । अथ परो नेता वदेद - आयुष्मन् श्रमण! मुहूर्तं २ यावत् तिष्ठ तावद् वयम् अशनं वा पानं वा खादिमं वा स्वादिमं वा उपस्कुर्मस्तदा तुभ्यं वयम् आयुष्मन्! सपानं सभोजनं पतद्ग्रहं दास्यामः, तुच्छे रिक्ते पतद्ग्रहे दत्ते श्रमणाय न सुष्ठु साधु भवति, स भिक्षुः पूर्वमेव आलोचयेद् वदेद - आयुष्मन्! इति वा भगिनि! इति वा नो मे खलु कल्पते आधाकर्मिकम् अशनं वा ४ भोक्तुं वा पातुं वा! अतो मा उपकुरु, मा उपस्कुरु, अभिकाङ्क्षसि मह्यं दातुं तर्हि एवमेव देहि, अथ तस्मै एवं वदते साधवे परोऽशनं वा उपकृत्य उपस्कृत्य सपानं सभोजनं पतद्ग्रहं दद्यात् तथाप्रकारं पतद्ग्रहमप्रासुकं यावन्नो प्रतिगृह्णीयात्। स्यात्तस्य भिक्षोः पर उपनीय पतद्ग्रहं निःसृजेत् तदा स भिक्षुः पूर्वमेव वदेद् - आयुष्मन् भगिनि वा! त्वत्सत्कमेव पतद्ग्रहं अन्तोपान्तेन प्रत्युपेक्षिष्ये, केवली ब्रूयाद् - आदानमेततत् कर्मबन्धकारणं यतः अन्तःपतद्ग्रहं प्राणिनो वा बीजानि वा हरितानि वास्युः । अथ भिक्षूणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत् पूर्वमेव पतद्ग्रहं अन्तोपान्तेन प्रत्युपेक्षेत, साण्डादिकाः सर्वे आलापका भणितव्या यथा वखैषणायां, नानात्वं तैलेन वा घृतेन वा नवनीतेन वा वसया स्नानादि यावद् अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले प्रत्युपेक्ष्य २ प्रमृज्य २ ततः संयत एव आमृज्यात्। एवं खलु संयत एव यतस्वेति ब्रवीमि।। यथायोगं सर्वे आलापका पूर्ववन्नेया यावद् एतत् खलु पात्रधारिणो भिक्षोः सामग्र्यमित्यनेन प्रतापनविधिर्धरणविधिश्चोक्तः ।।१५२।। ।। षष्ठाध्ययनस्य प्रथमोद्देशकः परिसमाप्तः ।।
।। अथ द्वितीय उद्देशकः ।। इहानन्तरसूत्रे पात्रनिरीक्षणादिकमभिहितमिहापि तच्छेषमभिधीयते, इत्यस्योद्देशकस्यादिसूत्रमिदम् -
से भिक्खूवार गाहावाकुलं पिंड पबिट्टे समाणे पुन्बामेव पेहाए पडिग्गहगंअवहट्ट पाणे पमज्जिय रयं तओ गाहावा. पिंड निक्ख. प. केवली. आउ.! अंतो पडिग्गहसि पाणे वा बीए वा हरि. परियावज्जिज्जा, अह भिक्खूणं पु. जं पुब्बामेव पेहाए पडिग्गहं अवहट्ट पाणे पमज्जिय रयं तओ सं. गाहबह निक्खमिज्ज वा २ ।।सू.१५३।।
सभिक्षुर्वा २ गृहपतिकुलं पिण्डप्रतिज्ञया प्रविष्टः सन् पूर्वमेव प्रेक्ष्य पतद्ग्रहम् आहृत्य निष्कास्य प्राणिनः प्रमृज्य रजश्च ततः संयत एव गृहपतिकुलं पिण्डप्रतिज्ञा निष्क्रामेद्वा प्रविशेद्वा, यतः केवली ब्रूयाद् - अप्रत्युपेक्षिते कर्मोपादनमेतत् तथाहि - अन्तःपतद्ग्रहं प्राणिनो वा बीजानि वा हरितानि वा पर्यापोरन भवेयुः, अथ भिक्षुणां पूर्वोपदिष्टंप्रतिज्ञादिकं यत् पूर्वमेव प्रेक्ष्य पतद्ग्रहम् आहृत्य प्राणिनः प्रमृज्य रजश्च ततः संयत एव गृहपतिकुलं निष्क्रामेद्वा प्रविशेद्वा ||१५३।। भाचाराणसूत्रम्
LP