________________
सुलभानि यत्र पीठफलकशय्यासंस्तारकादीनि, सुलभः प्रासुक उञ्छो यथैषणीय, न च यत्र बहवः श्रमणादयो उपायाता उपागमिष्यन्ति वा अल्पाकीर्णा च वृत्तिर्यावद् राजधान्यां वा ततः संयत एव वर्षावासमुपलीयेत वर्षाकालं कुर्यादिति ।।११२।। - -
साम्प्रतं गतेऽपि वर्षाकाले यदा तथा च गन्तव्यं तदधिकृत्याह -
अह पुणेवं जाणिज्जा - चत्तारि मासा वासावासाणं वीइक्कंता हेमंताण य पंचदसरायकप्पे परिपुसिए, अंतरा से मग्गे बहुपाणाजाव ससंताणगानो जत्थबहवे जाव उवागमिस्संति, सेवं नच्चा नो गामाणुगामं दूइज्जिज्जा। अह पुणेवं जाणिज्जा चत्तारि मासा. कप्पे परिवुसिए, अंतरा से मग्गे अपंडा जाव असंताणगा बहवे जत्थ समण. उवागमिस्संति, सेवं नच्चा तओसंजयामेव. दूइज्जिज्जा ।।सूत्र-११३।।
___ अथ पुनरेवं जानीयात् - चत्वारोमासा वर्षावासस्य व्यतिक्रान्ताः, तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवाऽन्यत्र गत्वा पारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य च पञ्चदशरात्रकल्पे पर्युषिते पञ्चसु वा दशसुवा दिनेसु गतेषु गमनं विधेयं, तथापि अन्तरा तत्र मार्गा बहुप्राणिनो यावत् ससन्तानका न च यत्र बहवः श्रमणब्राह्मणादयो यावद् उपागमिष्यन्ति वा स एवं ज्ञात्वा नो ग्रामानुग्रामं द्रवेद विहरेत् किन्तु समस्तमेव मार्गशिरः यावत्तत्रैव तिष्ठेत् तत ऊर्ध्वं यथा तथाऽस्तु न तिष्ठेत् । एतद्विपर्ययसूत्रमाह - अथ पुनरेवं जानीयात् - चत्वारो मासा वर्षावासस्य व्यतिक्रान्ता हेमन्तस्य च पञ्चदशरात्रकल्पे पर्युषिते, अन्तरा तत्र मार्गा अल्पाऽण्डा यावद् असन्तानका बहवो यत्र श्रमणब्राह्मणादय उपागमिष्यन्ति, स एवं ज्ञात्वा ततः संयत एव ग्रामानुग्रामं द्रवेत् ।।११३।।
इदानीं मार्गयतनामधिकृत्याह -
से भिक्खू वा २ गामाणुगामं दूइज्जमाणे पुरओ जुगमायाए पेहमाणे वट्टण तसे पाणे उद्धटु पादं रीइज्जा साहट्ट पायं रीइज्जा वितिरिच्छं वा कट्ट पायं रीइज्जो, सह परक्कमे संजयामेव परिक्कमिज्जा, नो उज्जुयंगच्छिज्जा, तओसंजयामेव गामाणुगाम दूहज्जिज्जा। से भिक्खू वा. गामा. दूइज्जमाणे अंतरासे पाणाणि वा बी. हरि. उदए वा मट्टिया वा अविद्धत्थे. सह परक्कमे जाव नो उज्जुयं गच्छिज्जा, तओ संजया. गामा. दूहज्जिज्जा ।।सूत्र-११४।।
स भिक्षुर्वा २ गामानुग्रामं द्रवन् अग्रतो युगमात्रं प्रेक्षमाणो दृष्ट्वा त्रसान् प्राणिन उद्धृत्य पादम रीयेद अग्रतलेन गच्छेद , संहृत्य पादं रीयेत् पार्णिकया गच्छेद वितिरश्चीनं वा कृत्वा पादं रियेत् । अयं चान्यमार्गाभावे विधिः । सति परक्रमे अन्यमार्गे संयत एव तेन पथा पराक्रमेद् गच्छेत्, न ऋजुना पथा गच्छेत्, ततः संयत एव ग्रामानुग्रामं द्रवेत्। स भिक्षुर्वा ग्रामानुग्रामं द्रवन् अन्तरा तत्र प्राणिनो वा बीजानि वा हरितानि वा उदकं वा मृत्तिका वाऽविध्वस्ता स्यात् सति परक्रमे यावन्नो ऋजुना गच्छेत्, ततः संयत एव ग्रामानुग्रामं द्रवेत् ।।११४।।
अपि च -
आचारागसूत्रम्