________________
अथ तृतीयमीर्याध्ययनम् साम्प्रतं तृतीयमारभ्यते, इहाद्येऽध्ययने पिण्डः प्रतिपादितः, स च वसतौ भोक्तव्य इति देतीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थं गमनं विधेयं, तच्च यदा यथा विधेयं यथा च न विधेयमित्येतत्प्रतिपाद्यम्, इत्यस्याध्ययनस्य सूत्रमुच्चारणीयं, तच्चेदम् -
अन्भुवगए खलु वासावासे अभिपुवढे बहवे पाणा अभिसंभूया बहवे बीया अहणाभिन्ना अंतरा से मग्गा बहुपाणा बहुवीया जाव ससंताणगा अणभिक्कंता पंथा नो विनाया मग्गा सेवं नच्चा नोगामाणुगामंदूइज्जिज्जा, तओ संजयामेव वासावासं उवल्लिइज्जा ।।सूत्र१११॥
___ अभ्युपगते वर्षावासे अभिप्रवृष्टे च पयोमुचि मेघे, तत्र साधुनां सामाचार्येवैषा, यदुतनिर्व्याघातेनाप्राप्त एवाषाढचतुर्मासके तृणफलकडगलकभस्ममात्रकादिपरिग्रहः कार्यो यतो जातायां वृष्टौ बहवः प्राणिनोऽभिसंभूताः प्रादुर्भूताः बहूनि बीजानि अधुनाभिन्नानि अभिनवाऽङ्कुरितानि, अन्तरा तस्य साधोर्मार्गा बहुप्राणिनो बहुबीजा यावत् ससन्तानकाः, अनभिक्रान्ताश्च पन्थानः अतएव न विज्ञाता मार्गाः, स एवं ज्ञात्वा न ग्रामानुग्रामं द्रवेद् गच्छेद, ततः संयत एव वर्षावासमुपलीयेत वसेत्-कुर्याद् यथावसरप्राप्तायां वसतौ ।।१११।।
एतदपवादार्थमाह -
से भिक्खूवा र सेजं. गाम वा जाव रायहाणिंवा इमंसिखलु गामंसि वा जावराय. नो महई विहारभूमी नो महई वियारभूमी नो सुलभे पीठफलगसिज्जासंथारगे नो सुलभे फासए उंछे अहेसणिज्जेजत्थबहवेसमण. वणीमगा उवागया उवागमिस्संतिय अच्चाइन्ना वित्ती नो पन्नस्स निक्खमणे जाव चिंताए, सेवं नच्चा तहप्पगारं गाम वा नगरं वा जाव रायहाणिं वा नो वासावासं उवल्लिइज्जा।से भि. से जं. गामं वा जाव राय इमंसि खलु गामंसि वा जाव महई विहारभूमी महई वियार. सुलभेजत्थ पीठ ४ सुलभे फा. नो जत्थ बहवेसमण उवागमिस्संतिवाअप्पाइन्ना वित्तीजावरायहाणिंवा तओसंजयामेव वासावासं उवल्लिइज्जा ।।सूत्र-११२।।
स भिक्षुर्वा २ यत् पुनरेवं जानीयात्, तद्यथा-ग्रामं वा यावद् राजधानी वाऽस्मिन् खलु ग्रामे वा यावद् राजधान्यां न विद्यते महती विहारभूमिः स्वाध्यायभूमिः न महती विचारभूमिः बहिर्गमनभूमिः न सुलभानि पीठफलकशय्यासंस्तारकादीनि, न सुलभः प्रासुक उञ्छः पिण्डपातो यथैषणीयः, यत्र च बहवः श्रमणवनीपका उपागता उपागमिष्यन्ति च अत्याकीर्णा वृत्तिः भिक्षाटनादिरूपा, अत एव न प्राज्ञस्य निष्क्रमणं यावच्चिन्तनादेः स्वाध्यायादेः क्रिया निरुपद्रवाः सम्भवन्ति, स साधुः एवं ज्ञात्वा तथाप्रकारे ग्रामे वा नगरे वा यावद् राजधान्यां वा न वर्षावासमुपलीयेत। स भिक्षुर्वा यद् ग्रामं वा यावद् राजधानी वा जानीयात्, तद्यथा अस्मिन् खलु ग्रामे वा यावन महती विहारभूमिमहती विचारभूमिः,
आचारागसूत्रम्
५७