________________
खलु स्थानमुपस्त्रक्ष्यामि, नाऽवलम्बयिष्ये कायेन, विपरिकर्माणि तु करिष्ये, न सविचारं स्थानं स्थास्यामीति तृतीया प्रतिमा ३ । अथाऽपरा चतुर्थी प्रतिमा - अचित्तं खलु स्थानमुपस्रक्ष्यामि, नाऽवलम्बयिष्ये कायेन, न विपरिकर्माणि करिष्ये, न च स्तोकपादादिविहरणरूपं सविचारं स्थानं स्थास्यामीति चतुर्थी प्रतिमा ४ । आसां प्रतिमानामुत्तरोत्तरं प्राधान्यमवगन्तव्यं यावच्चरमायां साधुर्मेरुवन्निष्कम्पस्तिष्ठेद्, यद्यपि कश्चित्केशाद्युत्पाटयेत्तथाऽपि स्थानान्न चलेत् । इत्येतासां चतसृणां प्रतिमानां यावद् अन्यतरां प्रतिमां प्रतिपद्यमानः पूर्वप्रतिपन्नो वाऽन्यमपरप्रतिमाप्रपन्नं साधुं न हीलयेद् न चाऽऽत्मोत्कर्षं कुर्याद् यतस्ते जिनाज्ञामाश्रित्य समाधिना वर्तन्त इति प्रगृहीततराकं यथाऽभ्युपगमं विहरेद्, न किञ्चिदपि वदेत् । एतत् खलु तस्य यावद् भिक्षोः सामग्र्यमिति यतस्वेति ब्रवीमि ।। सू.१६३ । ।। प्रथमः सप्तैककः समाप्तः, समाप्तं चाऽष्टममध्ययनम् ।।
।। द्वितीयः सप्तैककः अथ निषीधिकाध्ययमनम् ।।
प्रथमानन्तरं द्वितीयः सप्तैककः, इहानन्तराध्ययने स्थानं प्रतिपादितं तच्च किंभूतं स्वाध्याययोग्यम्? तस्यां च स्वाध्यायभूमौ यद्विधेयं यच्च न विधेयमित्यस्य निषीधिकाऽध्ययनस्य सूत्रमिदम् -
भिक्खू वा २ अभिकं. निसीहियं फासूयं गमणाए, से पुण निसीहियं जाणिज्जासअंडं तह. अफा. नो चेइस्सामि । से भिक्खू, अभिकंखेज्जा निसीहियं गमणाए, से पुण नि. अप्पपाणं अप्पबीयं जाव संताणयं तह. निसीहियं फासूयं चेहस्सामि, एवं सिज्जागमेणं नेयव्वं जाव उदयप्पसूयाइं । जे तत्थ दुवग्गा तिवग्गा चउबग्गा पंचबग्गा वा अभिसंधारित निसीहियं गमणाए ते नो अन्नास्स कायं ओलिंगिज्ज वा चुंबिज्ज वा दंतेहिं वा नहेहिं बा अच्छिंविज्ज वा बुच्छिं., एयं खलु जं सव्र्व्वद्वैहिं सहिए समिए सया जएज्जा, सेयमि मन्निज्जासि त्ति बेमि । । सू० १६४ ।।
।। निसीहियासत्तिक्कयं ।।
भिक्षुर्वा २ अभिकाङ्क्षेत् प्रासुकां निषीधिकां स्वाध्यायभूमिं गमनाय स पुनः निषीधिकां जानीयात् - साण्डां यावत् ससन्तानकां तथाप्रकारामप्रासुकां न चेतयिष्यामि । स भिक्षुर्वा २ अभिकाङ्क्षेद् निषीधिकां गमनाय, स पुनर्निषीधिकां जानीयात् - अल्पाण्डाम्, अल्पबीजां यावद् अल्पसन्तानकाम्, तथाप्रकारां प्रासुकां चेतयिष्यामि ग्रहीष्यामि । यावत् शय्यागमेन पूर्ववन्नेयं यावद्दकप्रसूतानि कन्दानि मूलानीत्यादि। ये तत्र द्विवर्गास्त्रिवर्गाश्चतुर्वर्गाः पञ्चवर्गा द्वित्राद्या: वाऽभिसन्धारयन्ति गमनाय ते नाऽन्योन्यं कायमालिङ्गयेयुर्वा चुम्बेयुर्वा दन्तैर्वा नखैर्वाऽऽच्छिन्द्युर्वा व्युच्छिन्द्युर्वा, एतत् खलु तस्य भिक्षोः सामग्र्यम् यत् सर्वार्थैः सहितः समितः समितिभिर्युक्तः सदा यतस्व श्रेय एनं मन्यस्वेति ब्रवीमि ।।१६४।। ।। द्वितीयं निषीधिकाऽध्ययनं समाप्तम् एवं समाप्तमादितो नवममध्ययनम् ।। तृतीयः सप्तैककः - उच्चारप्रश्रवणाध्ययनम्
साम्प्रतं तृतीयः सप्तैककः प्रारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरे निषीधिका आचाराङ्गसूत्रम्
९९