________________
सप्तसप्तिकाख्या द्वितीया चूला उक्तं सप्तमध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानी द्वितीया समारभ्यते, इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोच्चारप्रस्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिका। सप्तैककानि एकसराणि - उद्देशकरहितानि अध्ययनानि सन्ति, तत्रापि प्रथमं स्थानाख्यमध्ययनं, तस्य सूत्रमिदम् -
प्रथम: सप्तकक: स्थानाध्ययनम् से भिक्खू वा २ अभिकंखेज्जा ठाणं ठाइत्तए, से अणुपविसिज्जा गाम वा जाव रायहाणिं वा, से जं पुण ठाणं जाणिज्जा-सअंडं जाव मक्कासंताणयं तं तह. ठाणं अफासुयं अणेस. लाभेसंतेनोप., एवं सिज्जागमेणं नेयव्बंजाव उवयसूयाइंति। इच्चेयाई आयतणाइं उवाइक्कम २ अह भिक्खू इच्छिज्जा चउहिं पउिमाहिं ठाणं ठाइत्तए, तत्थिमा पठमा पउिमा - अचितं खलु उवसज्जिज्जा, अवलंविज्जा काएण, विप्परिकम्माइ नो' सवियारं ठाणं ठाइस्सामि १। दुच्चा पडिमा-अचितं खल उवसज्जेज्जा, अवलंविज्जा नो' कारण विप्परिकम्माई, नोसवियारं ठाणंठाइस्सामिदुच्चा पडिमा २ अहावरा तच्चा पडिमा-अचित्तं खलु उवसज्जेज्जा, अवलंबिज्जा नोकाएण, विपरिकम्माइ, नो सवियारं ठाणं ठाइस्सामिति तच्चापतिमा ३ । अहावरा चउत्थापतिमा-अचित्तंखल उवसज्जेज्जा, नो अवलंविज्जा काएण, नो परिकम्माई नो सवियारं ठाइस्सामित्ति वोसट्ठकाए वोसट्टकेसमंसुलोमनहे संनिरुद्धं वा ठाणं ठाइस्सामिति चउत्था पडिमा ४ । इच्चेयासिं चउण्हं पडिमाणं जाव पग्गहियतरायं विहरिज्जा, नो किंचिवि वहज्जा, एयं खलु तस्स. जाव तस्स. जइज्जासिति बेमि ।।१६३ ।।
।। ठाणासत्तिक्कयं समतं ।।
स भिक्षुर्वा २ अभिकाङ्क्षत स्थानं स्थातुंतदा सोऽनुप्रविशेद् ग्रामं वा यावद् राजधानी वा, तत्र यत्पुनर्जानीयात् - साण्डं यावत् ससन्तानकं तत् तथाप्रकारं स्थानमनेषणीयं, लाभे सति नो प्रतिगृह्णीयात् एवं शय्यागमेन पूर्ववद् नेतव्यं यावदुदकप्रसूतानीति। इत्येतानि आयतनानि कर्मबन्धकारणानि उपातिक्रम्या परिहत्याऽथ भिक्षुरिच्छेत् चतसृभिः प्रतिमाभिः अभिग्रहविशेषैः स्थानं स्थातुम्, तत्र इयं प्रथमा प्रतिमा - तस्य भिक्षोरेवं भवति - यथाऽहमचित्तं खलु स्थानमुपस्त्रक्ष्यामि, उपाश्रयिष्ये तत्राऽचित्तं च कुड्यादिकमवलम्बयिष्ये कायेन, करिष्यामि हस्तपादाद्याकुचनादिरूपाणि विपरिकर्माणि तथा तथैव स्तोकपादादिविहरणरूपं सविचारं स्थानं स्थास्यामीति प्रथमा प्रतिमा १। अथाऽपरा द्वितीया प्रतिमा - अचित्तं खलु स्थानमुपस्रक्ष्यामि, अवलम्बयिष्ये कायेन, करिष्ये विपरिकर्माणि, न सविचारं स्थानं स्थास्यामि द्वितीया प्रतिमा २। अथाऽपरा तृतीया प्रतिमा-अचित्तं + इति चिह्नान्तर्गतौ नोशब्दौ दृश्येतेऽधिकौ टीकाकृदभिप्रायेण । आचारागसूत्रम्