________________
सप्तमी प्रतिमा ७ । इत्येतासां सप्तानां प्रतिमानामन्यतरां प्रतिमां प्रतिपन्नो प्रतिपद्यमानो वा अन्यमपरप्रतिमाप्रपन्नं साधुं न हीलयेद् यतस्ते सर्वेऽपि जिनाज्ञामाश्रित्य वर्त्तन्ते यथा पिण्डैषणायाम् ।।१६१ ।।
किञ्च -
सुयं मे आउसंतेणं भगवया एवमक्खायं - इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे पनते, तं. - देविंदउग्गहे १ रायउग्गहे २ गाहाबइउग्गहे ३ सागारियउग्गहे ४ साहम्मियउग्गहे ५, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ।।१६२ ।।
।। उग्गहपडिमा समत्ता ।।
श्रुतं मया आयुष्मता भगवता एवमाख्यातम् - इह खलु स्थविरैर्भगवद्भिः पञ्चविधः अवग्रहः प्रज्ञप्तः तद्यथा देवेन्द्राऽवग्रहः १, राजावग्रहः २, गृहपतेरवग्रहः ३, सागारिकावग्रहः ४, साधर्मिकावग्रहः ५ । एतत् खलु तस्य भिक्षोर्भिक्षुण्या वा सामग्रयम् ।।१६२ ।।
।। अवग्रहप्रतिमा समाप्ता । समाप्तं च सप्तमध्ययनम् ।। ।। समाप्ता च प्रथमाऽऽचाराङ्गचूला ।।
आचाराङ्गसूत्रम्
९७