________________
श्री जगडूशाह-चरित्रम् एवं चेन्मनसो वशीकरणे नित्याभ्यासो वैराग्यं चाऽऽपेक्ष्यतेऽवश्यम्। वैराग्यमार्गे च गच्छतां तदभ्यासकारिणां पुंसां महान्त उपसर्गा दुःसहा उत्पद्यन्ते। तांश्च सहमानैरेव जीवैझुरतया तन्निग्रहे यतितव्यम्। तत्रोद्भूतक्लेशभिया निजसाध्यं कदाचिदपि नो हेयम्। इत्थमभ्यासजुषामायतौ सुखेन निर्विघ्ना तत्सिद्धिरुपैति।
अत्रान्तरे सरस्वत्याह - प्रीतिमति! अवश्यं लोके ह्यभ्यासवैराग्ये मनसः स्थिरीकरणे सदुपयुक्ते वस्तुनी स्तः। सर्वथा विजयोक्तमेतत्सत्यमस्ति। अतस्त्वमिदानी मानसिकखेदशोकादिनिरासार्थं स्वानुकूलमाचर*, पारमार्थिकधर्मकृत्यादौ मनो लग्नं कुरु। इदं हि लोके दुःखानामौषधदिनं कथ्यते। यथा यथा दिवसा यास्यन्ति तथा तथा तावकान्यमूनि दुःखान्यपि स्वल्पतामेष्यन्ति। यथा वा क्रमशस्तीव्रमिदं दुःखं विस्मरिष्यसि, तथा तथा तव मनोऽपि स्थिरतां शान्तिं चाधिगमिष्यति।
प्रीतिमती ब्रूते-भगिनि! सरस्वति! सम्प्रति मया किमपि नावलोक्यते, चित्तमपि स्वाधीनं नास्ति, परन्तु त्वादृशीनां विदुषीणां सहचरीणां सहवासादिना क्रमश एतत्सर्वं विस्मत्तुं प्रयतिष्येऽहमिति व्याहृत्य विरतायां प्रीतिमत्यां पुनरजल्पत्सा विजया
प्रीतिमति! परिवर्तनमदः संसारस्य नैसर्गिकः स्वभावो वर्त्तते। लोके हि पुण्यानि कुर्वतां पापीयसां च जीवानां सुखदुःखरोगाऽरोगविविधपरिवर्तनं सदैव दृश्यतेतमाम्। किमिति न जानाति भवती। यद् द्वाविंशतितमतीर्थकरो भगवान् नेमिनाथः परिणेतुं महता महेन चलितोऽपि मार्ग एव समुद्भूतवैराग्यस्ततः परावर्त्य स्वकीयं रथं, दीक्षां लातुमचालीत्, तदानीं तस्मिन् राजीमत्याश्च कीदृशं मोहबन्धनमासीत्। सैव राजीमती पश्चात् सति मोहबन्धनस्य
88