________________
श्री जगडूशाह-चरित्रम् शैथिल्ये संजातवैराग्या भगवत्पार्श्वे दीक्षामादत्त। एवं प्रदेशीनृपः कीदृशः पापीयान् नास्तिकश्चासीत्, परं सोऽपि पश्चात्केशिकुमारगणधरोपदेशात्कीदृशो धर्मविधौ दृढतरश्रद्धालुरजायत। वेश्यादेश्या कोशा स्त्र्यपि मुनिस्थूलभद्रमुनिवरोपदेशमादाय कीदृशी व्रतिनी सुश्राविकीभूय सिंहगुहावासिमुनेर्बाणविद्याकुशलताप्रदर्शकराजरथिकस्य चोपदेशकरी जज्ञे। ईदृशपरिवर्त्तनेन जगत्येतावत्सुखेनाऽवगन्तुं शक्यते। यन्मानवीयं मनश्चञ्चलं सदपि परिवर्त्तते। अस्थिरत्वादपि स्थैर्ये समेति। पापादपि विरम्य धर्ममार्गमारोहति, विमुच्यापि मोहबन्धनं वैराग्यमुपैति। तद्वदेव तवापि मनः क्रमिकाभ्यासेन निगृहीतं भवदचिरादेव शोकादमुष्माद्विरम्य वैराग्ये परिणतं भविष्यतीति तां प्रीतिमती शोकसागरनिमग्नामाश्वास्य परस्परं कियती समुचितां वार्तामालप्य च तस्या मनसः शान्तिं विधाय विजयाद्याः सख्यः स्वस्वसदनमीयुः।
परमित्थं सख्यादिना भृशं प्रतिबोधितापि सा प्रीतिमती मनसि मनागपि स्वास्थ्यं नाध्यगच्छत्। परं च दुःखानामसहनीयानां पौनःपुन्येन स्मृत्या रोरुद्यमानां स्वपुत्रीं प्रीतिमतीमपारयन्तीमेतच्छोकान्तमालोक्य तदीयशोकेनातिदुःखीभवन् जगडूशाहः स्वतनयां पुरेव सुखयितुं सन्ततं तदुपायं गवेषयनेकदा निजोदारमानसे निश्चितवानेवम्-"हन्त! सम्प्रति मामिका प्रीतिमती प्रेयसी पुत्री षोडशहायनैव वैधव्यमुपेयुषी। वर्वति चैतस्या मनः सांसारिकविविधविषयवासनातृष्णादिना किलातृप्तमेव। मनागपि तदुपरतं नैव लक्ष्यते। यावदस्या एता विषयवासनातृष्णादयो नो परिपूर्येरन्, तावदेषा दुःखिन्येव वय॑तीति मन्ये। न वा सम्भाव्यते-यदेषा यथावदेतद्वैधव्यधर्मान् परिपालयेत्। अतो यथेयं पुरेव यावज्जीवं धर्माऽविरोधेन सुखमनुभवेत्तथाऽऽशु विधातव्यम्। यद्यपि तथा कृते सति जातिज्ञातीया तदितरलोकीया च महती बाधा मयि
89