________________
श्री जगडूशाह-चरित्रम् । निपतिष्यति, जातिबाह्यं च लोका मामवश्यं करिष्यन्ति, परमेतत्सर्व सुखेन सहिष्ये प्रतिकरिष्ये च तस्मिन् [विषये] जायमानमहोपसर्गानपि। किन्त्वस्याः शोकाकुलीभूतायाः प्रीतिमत्या अपारमेतद् दुःखं प्रेक्षितुं क्षणमात्रमपि नैव प्रभवामि। अतः शीघ्रमेनां सुखिनी विधाय तदनु तत्रापतितां बाधां सकलां वारयितुं सुखेन यतिष्ये। अस्ति चैतद) जयन्तसिंहः। यद्यसौ प्रीतिमती कामयेत साप्येनमभिलष्येत तर्हि तयोः पुनरुद्वाहः श्रेयान् स्यात्। यदि च लोके मृतायां भार्यायां पुंसां पुनरुद्वाहः शास्त्रानिषिद्धो व्यवहारसिद्धश्च भवेत्तर्हि स्त्रिया किमपराद्धं, येन ताः पुनः परलोकं गतवति भर्तरि पत्यन्तरं न कुर्युः। तासामपि सत्यां वासनायां पत्यन्तरविधाने को दोषः?, याश्च बालविधवा निजमनः संयन्तुमर्हेयुर्विषयवासनाव्युपरताश्च भवेयुस्ताः खलु स्त्रियः सुखेन पालयन्तु नाम यावज्जीवं वैधव्यधर्मानेव। याः पुनः सकामा एव वर्तन्ते, ता यदि लोकलज्जादिपारतन्त्र्यवशाद्वैधव्यधर्मपरिपालने तत्परिवारा योजयेयुस्तर्हि प्रान्ते विपरीतमेव तत्फलं समुत्पद्येत। अतो मया निजसुतामेनां सुखयितुमवश्यमेव कश्चित्प्रबन्धो विधेयः, तथा कुर्वतो मेऽवश्यं ज्ञातीयो महीयानुपहासस्तिरस्कारश्च सहनीयो भविष्यति। भवतु नाम तथा प्रेयस्याः पुत्र्याः सुखसंपादनेन तत्र जायमानः समस्तोऽपि क्लेशः सहर्ष सोढव्य एव।'
इतश्चैकस्मिन् दिने क्वचिदेकाकिनी समासीना विचारनिमग्ना पुरातनानि सुखानि स्मारं स्मारमपारे शोकसागरे मज्जन्ती प्रीतिमती कमललोचनाभ्यामश्रूणि पातयन्ती मृदुतरनिजकरकमलतलाभ्यां शारदपूर्णचन्द्रनिभाऽऽननं पिधाय भृशं रुरोद। सा हि स्वभावाच्चपलं स्वमनस्तदानीं पुस्तकादिवाचने वैराग्यसम्पादनपटीयसि विचारे च योजयितुं यतमानापि परमेतत्तु सुखमेव पश्यदासीत्। किलाऽऽसीच्च विषयवासनाभिरपूर्णकामम्। अतस्तासु वासनास्वेव
90