________________
श्री जगडूशाह-चरित्रम् सन्ततं धावमानमासीत्। पौद्गलिके सुखमये विचार एव तन्मन एकान्तमासक्तमासीत्। मनसश्चाञ्चल्यादेव प्रीतिमत्याः शोकोऽल्पतां नाध्यगच्छत्। तस्मिन्नेवावसरे यशोमत्या सत्रा जगडूश्रेष्ठी तद्भवने समागत्य शोकपूर्णां प्रीतिमतीमद्राक्षीत्। अथ पुत्र्या दुःखेन दुःखितः पिताप्यस्याः सुखकृतेऽनेकसङ्कल्पविकल्पो कत्तुं लग्नः। एषा केनाप्युपायेन यावज्जीवं सुखिनी कर्तव्येति स्वमनसि निश्चिक्ये च सः।
"हा हा!! जगति बालविधवानां युवतीनां स्थितिरतिकठिना वर्वति। हन्त? विषयवासनावासितं सकामं तासां हृदयं चिराद्विरहानलसन्तसं भर्तारमन्तरा कथङ्कारं शान्तिं लभेत। यानि च लोके विविधर्द्धिसमृद्ध्यादीनि सुखसाधनानि विलसन्ति, सकलान्यपि तानि विषयासक्तचेतसां कामिनीनां मनः सुखयितुं कथं शक्नुवन्ति। विधवानां तु सर्वाण्यपि धनवसनभवनभूषणादीनि कामं खलु दुःखवन्त्येव भवन्ति। इत्थमेव प्रीतिमत्यपि यावज्जीवं दुःखमेवानुभविष्यति।"
तदीयदुःखेन दुःखितापि माता रुदतीं प्रीतिमतीमङ्के निधाय चित्तमस्याः सान्त्वयितुं प्रावर्त्तत-'पुत्रि! कथमेवमनवरतं रोदिषि?, किं ते प्रकृतिरस्वस्था वर्त्तते! शरीरे वा कश्चिद् व्याधिरजायत? यज्जायाते तान्निगद्यताम्। मातुः प्रश्नस्याऽस्योत्तरं किञ्चिदप्यददती प्रीतिमती केवलमुच्चैनिःश्वासमेव मुमोच। अमुना मातुः सान्त्वनेन प्रीतिमत्या विशाले नयनयुगलेऽश्रुपूर्णे जज्ञाते। तदा स्वाञ्चलेन तन्मार्जयन्ती माता तामपृच्छत्-'पुत्रि! दुःखस्य कारणं ब्रूहि, यदि त्वं न निगदिष्यसि निजदुःखहेतुं तर्हि कः कथयिष्यत्यन्यः। अज्ञाते च दुःखे कथमहं तत्प्रतीकारं कुर्याम्? वत्से! त्वामतिदुःखिनीमालोक्याऽहमपि दिवानिशं दुःखिन्येव वर्ते। चित्तमपि तावकेन शोकातिशयेन शतधा प्रयाति, पितापि तवान्तिके
91