________________
श्री जगडूशाह-चरित्रम् दुःखव्याकुलीभवॅस्तिष्ठति। स्पष्टं ब्रूहि, यदिदानीं त्वां सुखयितुमावां कमुपायं कुर्याव।' जगडूशाहेनापि कथितम्-'प्रियपुत्रि! त्वमिदानीं निजाशयं मातरं ब्रूहि, किञ्चेदानीं कामयसे तत्कथय? यतः-"मातुरग्रे पुत्र्याः किमपि गोप्यं नास्ति। अज्ञाते च तवाभिप्राये तत्प्रतिकर्तुमहं कथं शक्नुयाम्?"।
प्रीतिमतीत्थमवोचत् पितरम्-पूज्यपितः! त्वदाश्रये वर्तमाना तत्रभवतां सस्नेहालम्बनमाश्रिता चाहं किमपि दुःखं नानुभवामि। मदङ्गेऽपि काचिद्बाधा नास्ति। जगति प्राणिनां सर्वेषां प्रारब्धकर्मजं दुःखं सुखं च भोक्तव्यमेव भवति। भोगमन्तरा तत्क्षयो महीयसामपि नैव सम्भवति। यदिदं मामकं दुःखं पश्यसि तत्तु यावज्जीवं स्थास्यत्येव। विधिरपि तदन्यथा कत्तुं नो शक्नोति। तस्मान्मयि दुःखिन्यां सत्यां भवद्भिर्मनागपि मनसि तन्नाऽऽनीयताम्। येन जीवेन भवान्तरे यदर्जितं शुभाऽशुभात्मकं कर्म तत्फलमनेन देहेन भुज्यत एव, तत्राऽन्येषां मुधा खेदो न युज्यते।' इति पुत्रीवाक्यं निशम्य पुनरुवाच तत्पिता-'वत्से! किमेवं जल्पसि? जगत्यसाध्यं किमपि नास्ति। सर्वेषां प्रतीकारो जायते, सम्यगनुष्ठिते तदुचितोपाये। अतस्त्वमेकदा स्वमुखेन मातुर्मुखेन वा स्वाशयं श्रावय, यदहं झटित्येव तद् दुःखमपनीय त्वां सुखयितुमुपायं करवाणि।' मध्ये यशोमती प्राह-'पुत्रि! यदि पूज्यस्य पितुर्भाषितं साधु जानासि तर्हि स्वान्तस्थं भावं ममाग्रे प्रकटीकुरु, येन तत्प्रतिक्रिया क्रियेत। मनस्येव व्याकुलीभूय भृशं रोदिषि, पृष्टापि किमपि नो जल्पसि, तव रोदनेन शोकेन चाहमपि रोदिमि शोचामि च। त्वमेकाकिनी सततं रोदिषि मामपि रोदयसि, मतिमत्यास्ते समुचितं न भवति।'
___ मातापित्रोरित्थं वचनमाकर्ण्य मनसा वेपथुमती प्रीतीमती हृदये हस्तं निधाय मनसि दाळमानीय गम्भीरया गिरा तावुवाच'पूज्यौ! मातापितरौ! अहमेकैव भवतोः पुत्र्यस्मि, अत एव मय्यनुपम
92