________________
श्री जगडूशाह-चरित्रम् स्नेहं कुर्वाथे, मां सर्वदा सुखयितुं कामयेथे, मामकीमभिलाषामपि पूर्णयितुं युवां चिकीर्षथः। नूनमेतत्सकलं ममोपरि भवदनुपमामितशुद्धस्नेहं सूचयति। तावकेदृशसुशीतलच्छायायां वर्तमानायां मयि कथं नाम दुःखं जायेत? देहिनां सर्वेषामपि प्रतिभवं त्वादृशौ पितरौ जायेताम्, येन लोकेऽस्मिन् सन्ततीनां महदपि दैवादधिगतं दुःखमत्यल्पतां व्रजेत्। पितरौ! मां सुखयितुं भवद्भ्यामियान् प्रयत्नः क्रियते, परमेष क्रूरातिक्रूरो विधिः सुखातिशयशैलशिखरादवतार्य महादुःखगर्ते सहसैव यावज्जीवं मामपीपतत्, तच्च कोऽपि दूरीकर्तुं नैव मनुष्यः प्रभवति। अनवसरे खलु स्त्रीजातीयाया मम यदभाङ्कीत्सत्यं सुखं तस्य यदा यदा स्मृतिर्जायते, तदा तदा हताशमेतन्मे हृदयमगदनीयमेव दुःखमनुभवति, तदाहं तन्मनः स्थिरीकत्तुं वैराग्यपथमानेतुं च प्रयतमानापि तथाकत्तुं कदाचिदपि नैव पारयामि। हा! हा! किं कुर्यामिदानी? ममैतदुःखं विहन्तुं देवोऽपि शक्तिमान् न भवितुमर्हति, तींतरेषां कियती शक्तिः? तदेतत्पूर्वार्जितामिताऽशुभकर्मपरिपाकोदयमवश्यमेव भोक्तव्यम्। स्नेहग्रथिला अपि मातापित्रादयः परिवारास्तत्कथमन्यथा कुरिन्। यदुक्तम्-'अवश्यमेव हि भोक्तव्यं, कृतं कर्म शुभाऽशुभम्।'
यद्यपि प्रीतिमत्या एतद्दुःखं मातापित्रोरविदितं नाऽऽसीत्, तथापि पुत्रीमुखेन स्वीयाऽसहनीयाऽकालिकवैधव्यदुःखानां घटनामाकर्ण्य तौ पितरावतिशयदुःखीभवन्तौ परिम्लानतनुत्विषौ' जज्ञाते। तदा तत्पिता कथमेषा भविष्यज्जीवनं निर्गमयितुमभिलष्यतीति बुभुत्सया तामप्राक्षीदेवम्-'पुत्रि! त्वदीयं दुःखव्रजं पश्यतो ममापि मनो भ्राम्यति, खिद्यते च नितराम्। अतोऽहं पुनः पुनः पृच्छामि-यत्त्वं भविष्यत्काले निजं जीवनं कया रीत्या व्यत्येतुं समीहसे?, कीदृशी वा तवेच्छा वर्त्तते?, किमत्र संसारे त्वदेत1. कान्तिः । ..
93