________________
श्री जगडूशाह-चरित्रम् दुःखापहारी कश्चिन्मार्गो नैवास्ति? यदि त्वमेषिष्यसि तर्हि तव सुखाय नूनमहं कञ्चनमार्ग करिष्यामि।' ___ अथ तातोक्तं श्रुत्वा प्रीतिमत्या न्यगादीत्थम्-'पितः! भविष्यदेतज्जीवनमहं कथं यापयेयमित्यद्यावधि नो निरधारि, अनारतमेतदेव विचारयामि, तथाप्यत्र विषये कश्चिनिर्णयो नोदियाय।' पुनः पितोचिवान्-'वत्से! मनसि सर्वमेतद्विचिन्त्य स्थिरीभूतं स्वाशयमरं मां कथय? यादृशी विचारणा त्वदन्तःकरणे भविष्यति तथावश्यमहं विधास्यामि। त्वामाजन्म सुखिनीमवश्यं येन केनोपायेनाहं चिकीरस्मि। त्वां सुखिनी कर्तुमेकः पन्था मनसा मया निरधारि, तेनैव पथा यावज्जीवं पुनस्त्वं सुखानुभवं कर्तुमर्हसि, उपायान्तरं न पश्यामि। संभाव्यते च मया यदमुनोपायेन तावकं दुःखं विनक्ष्यतीति। परमेनं निर्णयं पश्चात्कथयिष्यामि। अद्यावधि ते जननीमपि नाचीकथमेतम्। यदेतस्मिन् जनन्यास्ते सम्मतिर्जनिष्यते तर्हि नूनममुना प्रशस्तेनोपायेन त्वामाजन्म पुरेवानन्दभोक्त्री करिष्यामि। किन्तु त्वमेकवारं स्वाशयं प्रकटीकुरु।' ____ अथैवमुदीर्य ततो निर्याते पितरि तन्माता बहुविधैर्वाक्यैस्तां सान्त्वयामास। प्राबोधयदेवम्-'वत्से! त्वमेवं मा शोचीः, किन्त्वमुष्मिन् भवेऽनेन देहेन तथानुष्ठेयं, यथा भवान्तरे पुनरीदृगसहनीयं कटुतरफलं नोद्गच्छेज्जातुचिदपि, तादृशं मार्ग शोधय, धैर्यमाश्रित्य लज्जां विहाय च निजाभिलषितं विचारं स्पष्टं कथय।' इति शिक्षयित्वा मातापि स्वसदनमागतवती। अथ पुनरेकाकिनी प्रीतिमती मातापित्रोर्भाषितं विचारयन्ती किमधुना मया कार्यमिति विचारे मग्ना तस्थौ।
प्रीतिमत्याः शोको जगडूशाहस्य हृदये व्यग्रतामुदपादयत्तथा, यथा स तत्र जायमानं जातीयप्रतिबन्धकादिकमगणयन् मनसीति 1. अरं = शीघं।
94