________________
श्री जगडूशाह-चरित्रम् निश्चिकाय-सत्यां तदिच्छायां प्रीतिमत्याः पुनः पाणिपीडनं कर्त्तव्यमेवेति। तदन्तरं स विजने मतिमन्तं स्वकीयं जयन्तसिंहनामानं मुनीममाकार्य सर्वमेतज्जगाद-"जयन्त! प्रीतिमत्या अकालिकं वैधव्यं पश्यतो ममान्तष्करणेऽगदनीयमसीमं खलु वर्वति दुःखम्। तत एव हेतोः सदैव मनोऽपि मे व्याकुलीभवत्कुत्रापि नो रज्यति। अत एव पुरेव नित्यमेनां सुखिनी चिकीर्षामि। परमेतत्पुनर्लग्नमन्तरा न घटते। अतस्त्वं प्रथमं तस्या आन्तरं विचारं विज्ञाय मां कथय, कथं वा सा स्वजीवनं व्यत्येतुमभिलषतीति च?' इति श्रेष्ठिन आज्ञां शिरसा निधाय मध्याह्ने जयन्तसिंहः प्रीतिमत्या भवनमाययौ। गृहागतमेनं निजबन्धुकल्पं जानाना सा मतिमती प्रीतिमती योग्यासनप्रदानादिना सच्चक्रे। तदावसरोचितां सुखदुःखमयीं कियती वात्तां चक्रतुस्तौ। प्रान्ते जयन्तसिंहस्तामवोचत्'प्रीतिमति! पितरौ ते सत्यां त्वदिच्छायां केनचित्तुल्यरूपलावण्यतारुण्यकुलादिविशिष्टेन पुंसा सह पुनर्विवाहं विधाय यावज्जीवं त्वां सुखवतीं चिकीर्षतः। सहिष्येते च तत्रापतन्तीं जातीयादिसकलबाधामपि। इतीदानीं निजेच्छां ममाग्रे प्रकटीकुरु?' तदाऽऽज्ञयैव साम्प्रतमेतज्जिज्ञासयाऽत्रागतोऽस्म्यहम्।
एतदसमञ्जसं लोकद्वयगर्हितं तदुक्तमाकर्ण्य समुद्भूतप्रभूतकोपा सा प्रीतिमती जयन्तसिंहमेवमाख्यातुमारेभे-"जयन्त! एतदुत्तरमहं तुभ्यं नो दित्सामि, किन्तु पितृभ्यामेव प्रदास्यामि। एतस्मिंस्तवान्येषां वा किमपि वक्तुं प्रयतितुं वाऽऽवश्यकता नास्ति। भवता भ्रमादपि कदाचिदपि ममाग्रे किलेदृशी वार्ता पुन व वाच्या। हन्त!! या खलु विशुद्धकुलावतीर्णा विद्यते, बिभेति च गर्हिताचारात्, विजानाति च धर्माऽधर्मों, तस्याः कुलवध्वाः पुनरुद्वाहं जल्पन्नपि त्वं मनागपि न त्रपसे? तन्महदाश्चर्य मे जनयति। अहो! त्वमुच्चैःकुले जनिमापन्नः स्वयं च विचारशीलो
95