________________
श्री जगडूशाह-चरित्रम् भूत्वापि यदार्यविधवां पुनरुद्विवाहयिषसि, अतस्त्वां धिगस्तु । तवायमेकोऽपराधो महीयानपि कथमपि सह्यते, पुनरीदृशीं वात मम पुरस्तात्करिष्यसि चेदायतौ तच्छुभं नो भविता, इति तथ्यं जानीहि । जयन्त! तवाधुना स्त्रीणां द्रढिम्नः परिचयो नो जज्ञे । यदार्थकुटुम्बिनी बालविधवा ललना जगति महत्या अपि महतीविपत्तीः सहते । चित्तनिरोधाऽशक्तायां दशायां विषादिभक्षणेनापि सुखेन मरणं शरणीकुरुते । परं निजार्यपथात्कदाचिदपि नो भ्रश्यति । तस्मादहमपि संसारे भावसाध्वीभूय स्वात्मानं स्त्रीसमाजमेतदुभयमुद्दिधीर्षामि । जायमानेष्वपि प्राणान्तदुःखेषु मनसा वचसा देहेन वा नाहं लोकद्वयगर्हितं महादुःखदायिमार्ग सिषेवे । '
प्रीतिमत्या अनया सुदृढादर्शभावनया जयन्तसिंहस्य मनसि कश्चिदपूर्व एव पूज्यभावः प्रादुरभवत्। तदाऽवेदीच्चासौ स्वीयतुच्छतरमज्ञानम् । भगिनि ! अग्रे पुनरहमीदृशीं विभ्रान्तिं नैव करिष्यामि यदिदानीमज्ञानतया मयाऽपराद्धं तत्क्षम्यतामित्थं कृतागसः क्षमापनं तदग्रे पौनःपुन्येन स कृतवान् । अयि भगिनि ! सर्वमेतत्तव पित्रा प्रेरितः सन्नेवाहमवादिषम् । यद्यपि चिरादशुभा मे चित्तवृत्तिस्त्वदर्थं विह्वलाऽऽसीत्, परमद्य तावकैतत्सुभाषितेन तत्र महत्परिवर्त्तनमजायत । इत्थं पश्चात्तापं विदधतं जयन्तसिंहमालोक्य सा प्रीतिमती तदशेषमपि दोषमक्षमिष्ट, आचष्ट च जयन्त! आर्यकुलस्य पन्थानमेवावलम्बस्व यदग्रे तावकी समुन्नतिर्भविष्यति।
तस्याः शुभाशिषमादाय जयन्तसिंहो जगडूशाहान्तिके समायातः। तत्रागत्य स प्रीतिमत्या हार्दिकं भावं व्याहृत्य श्रेष्ठिनमेवमवक्- 'श्रेष्ठिवर ! तस्याः कृते भवान् विपरीतमेव ध्यायति । यतः सा स्वप्नेऽपि पुनर्लग्नं नो कामयते, किन्तु जगति पारमार्थिककृत्यानुष्ठानेनैव निजजीवनं व्येतुमीहते ।' अथ जयन्तमुखेन
96
,