________________
श्री जगडूशाह-चरित्रम् स्वपुत्र्या मनोगतं भावमवगत्य जगडूशाहः कामं प्रससाद।' तदनु तद्धिताय श्रेष्ठी कियतीर्धार्मिकीः संस्था न्ययुक्त। सर्वासां तासामाधिपत्यं पुत्र्या एव विततार च।
अथैवं पारमार्थिके कृत्ये मनो दधाना प्रीतिमती सर्वतः प्राक् स्त्रीणां सुशिक्षया तज्जीवनं सुखेन सुधारयितुमचिन्तयत्, यथैता उत्तमां शिक्षामापन्ना उत्कृष्टा भवेयुः, गार्हस्थ्ये कर्मणि नैपुण्यं भजेरन्, शुभसन्ततिमुत्पादयेयुश्च सुखेन, जातशिशुरक्षणचिकित्सामपि सम्यगवगच्छेयुश्चेति। तथा पत्युरपि चिकीर्षितेष्टकार्यसाधने सहायिनी जायेत। सर्वमेतत्कामपि व्यवस्थां विना नो सेत्स्यतीति निश्चिन्वाना सा 'महिलासमाज' इत्याख्यामेकां संस्थां स्थापितवती। तदनु सर्वास्तत्रागत्य प्रतिदिवसं यथामति शिक्षा लब्धं लग्नाः, न्ययोजि च तस्यां धार्मिकव्यावहारिकस्त्रीजनोचितशिक्षणकलापटीयसी धार्मिकनैतिकाचारं विदधती शिक्षिका, परमेतदालोचनादिकार्य विदधाना सदैव स्वयमपि तत्पराऽऽसीत्। अनाथानां विधवानां ललनानां धार्मिकादिशिक्षातिरिक्ततदुचितजीविकार्थमस्यां संस्थायां स्त्रीजनोचितनानाविधकलाव्यापारोऽपि स्थापितः। येन निर्धना अप्यनाथाः स्त्रियः सनाथा इव धर्माऽविरोधेन सुखेन स्वजीवनं निर्वाहयेयुः। तेषु किलोद्योगेषु सर्वजातीया निर्धनाः कुमार्यश्च, विधवाः सधवाश्च साम्यतयैव नियुक्ता भवितुं लग्नाः। नागरिकाणां तूचितमेवैतत्, याः खलु वैदेशिकाः स्त्रियस्तासामप्यनया संस्थया महानेव लाभो भवितुं लग्नः। देशान्तरीयतत्रागताऽनाथस्त्रीजननिवासाय तत्राऽनेकानि महान्ति भवनानि निरमायिषत 1. पुत्रीवैधव्यपीडितमना जगडूशाहः सुधीमतां स्वज्ञातिवृद्धानामनुमत्या तां
विधवां निजपुत्रीं वरान्तराय दातुमैच्छत्। तत्रावसरे कुलाङ्गने दक्षे केचन विधवे कृतस्फारशृङ्गारे तमेवमूचाते-भोः श्रीमन्! विधवायै स्वपुत्र्यै यदि वरान्तरमवलोकसे तर्हि तथाभूतयोरावयोरपि वरवीक्षणं विधेहि। तयोस्तद्वचनं श्रुत्वा मनसि लज्जितः स प्रतिबोधमापत् (इति जगडूचरितकाव्ये)।