________________
श्री जगडूशाह - चरित्रम् तया प्रीतिमत्या। संस्थायां सर्वापि व्यवस्था श्लाघ्यतमाऽऽसीत् । अतः कस्याश्चिदपि मनागपि क्लेशलेशसम्भावना नासीत् । यथा चिकीर्षितं तथैव कृत्स्नमपि कृत्यं तस्यां प्रत्यहं वर्धमानमासीत् ।
तदनु सा प्रीतिमती सकलशिशुजनशैशवाज्ञानभेदनाय सज्ज्ञानप्रचाराय च बालमन्दिराभिधामपरामपि संस्थां प्रकाशितवती । यत्र सर्वे शिशवः क्रीडन्तोऽप्यनायासेन ज्ञानमापन्नाः, बाल्यादेव सुसंस्कृता भवन्त आयतावधिकसंस्कारवन्तः सकलकार्यसाधनपटीयांसः स्वीयं जीवनं नीतिमयं सुखशालि कुर्युः । सर्वे च बालकाः पञ्चवर्षादनन्तरं दशहायनपर्यन्तं तन्मन्दिरे शिक्षां लात्वैव शालान्तरे तदधिक- शिक्षणाय गच्छेयुरित्यपि व्यवस्था आसीच्च प्रतिबालकानुकूल्यं तत्र संस्थायाम्, अत एव सहर्षं समे च शिशवः सोत्साहं प्रमुदिताः सन्तः ज्ञानमर्जयामासुः । ये खलु लोके बधिरा मूकाः पङ्गवादयोऽसमर्थाः स्वोदरपूरणे व्यग्रास्तेषामर्थे च धर्मरसिकया प्रीतिमत्या पृथगेवैका पङ्गुशाला - कारि, तत्रागतांस्तादृशाञ्जीवान् प्रत्यहं भोजयति स्म, वस्त्रादिकं च ददाति स्म ।
एकत्र विशालभवने तयौषधालयं कृत्वा तत्र तेषु रुग्णानां प्राणिनामौषधप्रदानाय महीयानेको भिषग्वरो रोगनिदाननिपुणः स्थापितः । अपरत्र भवने नानाविधवसनसीवनादिशिक्षणस्थानमकरोत्। यत्र तादृशास्ते शिक्षामाप्नुवन्ति निरुद्यमाश्च सोद्यमा जायन्ते । इतोऽन्या महती दानशाला तयाऽकारि, तस्यामागतेभ्योऽतिथिजनदीनदुःखियाचकेभ्यः प्रत्यहं द्वैकालिकोचिताऽशनवितरणादिप्रबन्धोऽपि महानेव विदधे । तासां सर्वसंस्थानामालोकनादिकार्यं स्वयमेव कुर्वाणाऽऽसीत्प्रीतिमती ।
इत्थमनुदिनं सर्वाः सुव्यवस्थापिताः संस्था ववृधिरे । सामाजिकजनस्याप्यासु संस्थासु सहानुभूतिर्नितरामैधिष्ट । संस्थातः
98