________________
श्री जगडूशाह-चरित्रम् सुशिक्षिताः कियन्त्यः स्त्रियः खल्वनेकव्यापारदाक्षिण्यं नीताः सुखेन स्वजीवनमनेकव्यापारेण निर्वाहयितुं निरगच्छन्। न ह्येतावदेव धार्मिकज्ञानासादनाद्धाराधनेऽपि रसिकास्ता आत्मकल्याणकरीणामग्रण्या अप्यभूवन्। याः खलु स्त्रियोऽशिक्षितत्वाद् गेहे नानाक्लेशाननुभवन्ति स्म, भर्तारमपि पौनःपुन्येन खेदयन्ति स्म, श्वश्र्वादिपरिवारेष्वपि विनयं न विदधते स्म, ता अप्यधुना संस्थायां सुशिक्षिताः सत्यो व्यवहारे कुशला अभूवन्, सदैव मधुरमेवालपन्ति, भर्तुरपि प्रेयस्यः श्वश्र्वादिजनानां मान्याश्च जज्ञिरे। प्रकृतिरेव तासां पर्यवर्त्तत। 'अहो! शिक्षायाः प्रभावो महीयानस्ति' इत्थं ताः संस्था अनेकधा स्त्रीसमाजे समुन्नतिं विदधत्यः सर्वेषां स्तुत्या अभूवन्।
जगडूशाहोऽपि स्वपुत्र्या ईदृशानि पारमार्थिककृत्यानि समालोक्य तेषां व्यवस्थां, समाजे फलातिशयं च पश्यन्नितरां जहर्ष। अथ प्रीतिमत्या इयतीनां महतीनां संस्थानां सुव्यवस्थायां व्यग्रतया कयाचिदपि सख्या सत्राऽऽलपितुमवकाशो नो जज्ञे, तर्हि केनापि सह मुधा लपितुं कमपि शोचितुं वाऽवकाशः कथमुत्पद्येत?, अत एव सा भर्तुः शोकं सर्वथा विसस्मार। केवलं यथावकाशं वैराग्यवर्द्धकं धर्मप्रवर्तकं च ग्रन्थं मनोयोगेन पठन्ती सर्वदाऽऽत्मभावनायामेव तिष्ठति, प्रत्यहं च नियमिते समये जिनेन्द्रसेवार्चनादिविधाय गुरुमुखादुपदेशानाकर्ण्य यथाशक्ति व्रतनियमादिकं विदधाति।
अथैकदा निशावसानसमये जगडूशाहस्य हृदये चिन्ता समुत्पन्ना। हा! हा! नस्त्रयाणां बन्धूनामेकस्यापि कुलाधारभूता पवित्रा सन्तति स्ति, यया गोत्रं मे ध्रियेत। इति चिन्तातुरं प्राणेशं समवलोक्य सा विचक्षणा यशोमती सादरमवादीत्-प्राणनाथ! तवेदृशी चिन्ता कथमजायत?, किमाधिया॑धिर्वा?, येनाधुना तव
99