________________
श्री जगडूशाह-चरित्रम् मुखकमलं दिने विधुमण्डलमिव विच्छायं दृश्यते। अथवा मत्तोऽपि गोप्यं रहस्यं किमप्यस्ति, येन मदने नोच्यते? इति प्रियोक्तं वचनं श्रुत्वा सोऽवक्-अयि प्रेयसि! तवाग्रे ममाऽवाच्यं किमपि नैव विद्यते, मम भूयान् कालो यातः। समृद्धिरपि महती विद्यते, केवलं पुत्रो नास्ति। कनीयांसौ बान्धवावपि पुत्रहीनौ स्तः। तेन हीनमेतन्मे कुलं नूनं पतिष्यत्येव। इयमेव महती चिन्ता मदीयचित्ते शल्यमिव वर्तते। पत्योक्तं तत्कारणमाकर्ण्य सा जगाद-स्वामिन्! तदर्थं देवाराधनं क्रियताम्। यतः समाराधितो देवः सर्वेषामभीष्टं ददाति। ततः सोऽवदत्-सुभ्रूः! त्वया सम्यगुक्तम्। मनोरथाप्त्यै समुद्राधिष्ठित-सुस्थितदेवाराधनं करिष्ये, यतः सकलदेवताश्रितमाशुतोषं रत्नाकरं विहाय देवान्तरं कः सुधीः सेवेत? यस्मादस्माकं कुलं सत्पुत्रेण वर्धिष्यते, धर्मकृत्यं धनेन च भविष्यति अत उभयप्राप्तये रत्नाकरोऽभ्यर्चनीयः। इत्याकर्ण्य प्रसन्नवदना यशोमती जगाद-प्राणेश! त्वया सम्यगवधारितम्। अमुनोपायेनावश्यमेव मनोरथोऽसौ सेत्स्यति तत्र संशयं मा कृथाः।
अथान्येधुर्जगदानन्ददायी जगडूः शुभेऽहनि समुद्रतटे समागत्य परया भक्त्या धूपदीपौ विविधानि नैवेद्यानि ढौकयित्वा सप्ताह यावद् निराहारस्तमर्चितवान्। तदनु तत्प्रवर्धमानभक्तिभावनाप्रसादितः समुद्राधिष्ठायकः सुस्थितदेवो भासुरमूर्तिः सप्तमे दिवसे निशीथे तस्याग्रे प्रादुरासीत्। तस्मिन्नवसरे पुरःस्थितं देवमालोकमानः प्रफुल्ललोचनयुगलः स जगडूः परया भक्त्या प्रणम्य तुष्टाव-हे सकलसुरनिवास! जय जय, 'शतमहीधर! जय, श्रीकनकप्रोच्चैः? जय, तावकानि जीवनानि समादाय मेघा जगतीं जीवयन्ति सर्वमेतज्जगत्त्वदायत्तमेवास्ति। नूनं ममाद्य जन्मजन्मान्तरीयदुरितराशिस्तवामुना दर्शनेन तोयस्थलवणवद् 1. शतं महीधराः पर्वता यत्र तत्सम्बुद्धौ । 2. जलम्।
100