________________
श्री जगडूशाह-चरित्रम् व्यलीयत। हे सुरोत्तमरत्नाकर! यदि प्रसन्नोऽसि तर्हि वंशवृद्धिकरं पुत्ररत्नं धर्मवृद्धिकरीं श्रियं च मे देहि?।
ततोऽवदद्देवः - भोः कृतिन्! 'पुत्रस्तु तव नो भविष्यति। अतः सर्वार्थसाधिकैका लक्ष्मीरेव निश्चला तव गेहे तिष्ठतु। किञ्च यानि यानि यानपात्राणि रत्नैः पूरयिष्यसि तेषूच्चैः कोऽपि जातुचिदपि विघ्नो नोदेष्यति।' इति सुस्थितदेवेन वरे दत्ते सति पुनराह सः-हे सुरराज! यथा मे पुत्रहीनत्वं तथैव मम कनीयसोर्धात्रोरप्यस्ति किम्? देवोऽवादीत्-'वत्स! तव राजाख्यो बन्धुः पुत्रौ पुत्री च प्रापयिष्यति। ताभ्यामेव सत्पुत्राभ्यां तावकं कुलं चिरमेधिष्यते।' इति कथयित्वा सारतराणि कतिचिद्रत्नानि तस्मै जगडूकाय प्रदाय स देवस्तिरोऽधत्त। तावच्चरणायुधोऽपि निशाप्रयाणकालिकपटहरवाऽऽडम्बरसोदरं स्वरमकरोत्। अहो! प्रस्वेदबिन्दुवन्निर्गच्छदच्छतारका विध्वस्ततमःस्तोमवसना कोकाम्बुजन्मसन्तापिनी निशापिशाची रविकरनिकरभीतेव स्वैरमरमपससार। अथ चक्रवाककलरवसूचितदिवामणिभर्तृ समागमकाङ्क्षिणी प्राची दिशा नैशिकतामसशोकविमुक्ता सती तदानीमधिकं प्रससाद। अथैव प्रभातसमये जलधिदेवदत्तवरदानतो हर्षप्रकर्षमधिगच्छन् दीनजनान् पोषयन् कविवरपरिगीतस्फीतकीर्तिकलापं शृण्वन् स जगडूशाहः प्राज्यसौभाग्यशाली निजसदनमाययौ। ____ अथ तत्र पुरे रत्नाकरोत्कृष्टवरप्रभावेण पुरन्दरश्रीः सोलकुलप्रदीपः स रत्नभृतपोतेन सह निर्विघ्नतया समागतोऽधिकं दिदीपे। तत उपकेशान्वयसम्भूतेन सकलकार्यसाधनपटीयसा साद्गुण्यनिलयेन जयन्तसिंहेन सेवितः स नितरामशोभत। अथैकदा
1. चक्रवाक। .
.
101