________________
श्री जगडूशाह-चरित्रम् बहुवस्तुपूर्णमेकं महापोतमादाय समुद्रमार्गेण जयन्तसिंहो लाभाय कृतप्रयत्नः प्रशस्तमार्द्रपुरमाप। अथ पोतात्सकलं वस्तूत्तार्य प्रशस्तोपायनेन मन्दिरेशं प्रीणयित्वा भाटकेन कस्यापि विशालगेहं लात्वा तत्र सुखेनाऽतिष्ठत्।
ततोऽसौ जलधेस्तटे ग्रावाणमेकमत्यद्भुतं विलोक्य पवित्रचेताः स तं विचेतुं निजान् भृत्यान् नियोजयामास। तावत्तत्र स्तम्भनपुर (खंभात) निवासी तुर्क-जातीयमहापोतस्य प्रधानाधिकारी प्रसङ्गतः समागतः प्रस्तुतं तं प्रस्तरमालुलोके। तदनु सोऽपि तत्संग्रहाय निजभृत्यानादिशत्। तदोवाच जयन्तसिंहःभोः पुरुषाः! एष ग्रावा पुरा मयैवालोकि, आत्मसाच्चाकारि, अत एनमुत्पाटयतो मदीयाञ्जनान् मा वारयत?, तन्निरोधे वाऽमुष्य ग्रहणे वः कोऽप्यधिकारो नास्ति, मुधा मा विवदत। इति जयन्तसिंहोक्तमाकर्ण्य सदास्ते तमेवमवदन्-अरे! ग्रावाणमेनं निनीषूणामस्माकं रोद्धा भवान् कोऽस्ति, एतदवश्यं ग्रहीष्याम इति जानीहि। तदाकर्ण्य जयन्तः सरोषमाह-कदाचिदप्येवं नैव भवितुमर्हति, यूयमेतत्प्रस्तरमुपायसहस्रेणापि ग्रहीतुं नो प्रभविष्यथ, इति तथ्यमहं निगदामि। अस्योपरि ममैव स्वत्वमजनि प्राक्, न ह्येतदेवाऽवगच्छत, किन्तु स्वायत्तमप्यकार्षमहमेव पूर्वम्। पुनरूचिरे ते पुमांसः-अलमेतेन त्वया यदकारि तदकारि, साम्प्रत-मेतत्प्रस्तरं वयमेव ग्रहीष्यामः, केनाप्युपायेन मत्तस्त्वमेनमादातुं नो शक्ष्यसि, एतदर्थं तावकः सकलोऽपि प्रयासो वैफल्यमेव व्रजिष्यति। अतोऽस्माभिः सत्रा मुधा किं कलहायसे?, केवलं मौनमाधाय सुखेनैव स्वसदने याहि। तेषामित्युक्तिमाकर्ण्य पुनराह जयन्तःअरे! तर्हि किमेतन्मत्तो मूल्यमन्तरैव यूयं जिघृक्षथ? एवं सौलभ्येन किलैतल्लातुं नैव शक्ष्यथ। एतर्हि बलात्कारेण खल्वेतत्कदापि नो ग्रहीष्यथ। यतोऽहमेतत्सर्व राजानं कथयिष्यामि, नूनमत्र स एव
102