________________
श्री जगडूशाह-चरित्रम् योग्यं न्यायं करिष्यति। इति नृपनाम श्रुत्वा ते तुर्कीया लोकास्रस्ताः सन्तः काञ्चिन्नवीनामेव युक्तिमवधार्य जयन्तमूचुःअमुष्य प्रस्तरनायकस्य यो ह्येकं दीनारसहस्रं ददीत, स एव दृढाभिमानी समुद्रतीरस्थमेनं ग्रावाणं गृह्णीयात्। एतदाकर्ण्य जयन्तसिंहो बभाषे-भोः! यावदवोचि भवता तावद्द्व्यमाशु दत्त्वाऽऽर्द्रपुराधीशाय पाषाणमहं गृह्णामि। तुर्कपोताधिप एवमूचे'तद्विगुणं द्रव्यं प्रदाय पाषाणमादाय कीर्तिमहं भजामि।' जयन्त उवाच 'योऽस्मै नरेशाय दीनारं लक्षं दद्यात् स एव नूनमेनं पाषाणं गृह्णातु।' तुर्कः सरोषमित्यजल्पत्-'जयन्त! यावत्परिमाणं जगदिथ तावद्र्व्यं प्रदाय द्रागमुं प्रस्तरमहमेव ग्रहीष्ये।' जयन्त एवमूचिवान्-'नहि नहि दीनारलक्षद्वयं नृपाय दत्त्वा कृतप्रतिज्ञोऽहममुं पाषाणं जिघृक्षामि।' तुर्केण पुनरप्युक्तम्-यद्दीनारलक्षत्रयमेतस्मै भूजानये ढोकयेत्स एव पाषाणं गृह्णीयात्। इति मिथो जातमेतद्वादमाकर्ण्य तत्रागतस्य नृपस्य तदैव पणीकृतं सकलं द्रव्यं प्रदाय तत्पाषाणमग्रहीज्जयन्तसिंहः। तत्रावसरे स तुर्को दुर्ग्रहेण मेघो वारीव दर्शेण शीतांशुः प्रकाशमिव तत्र वादे महीयसा जयन्तसिंहेन पराजितस्तावत्परिमाणं द्रविणं नृपाय दातुं नाऽशक्नोत्, किश्च मुखवातेन दर्पण इव तुषारेण कमलवनमिव स तुर्को जयन्तसिंहेन बाढं परिम्लानिमियाय। अहो! महासाहसवान् धीमानसौ जयन्तसिंहः स्वस्वामिख्यातिकृते दृषदर्थमेतावद्वित्तं नृपस्याऽदत्तेति तत्रत्याः सर्वे पौरास्तदोचिरे।
ततः स जयन्तसिंहः स्वभर्तुः प्रत्यायनाय तच्छिलोपलं गृहीत्वा वस्तुहीनं यानपात्रमादाय भद्रेश्वरपुरमगात्। तत्रैष धीरस्तूर्णमनल्पधियां निधानं श्रीसोलपुत्रं नमस्कृत्य तं ग्रावाणमानाय्य सर्वविस्मयकरमिति स्पष्टमाचष्ट-'प्रभो! तत्र भवतां कीर्तिरक्षायै तावकं भूरिधनं शिलाखण्डस्याऽस्य कृते मयार्द्रपुरे व्यनाशि,
103