SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् अत इदानीमुचितं मयि विधेहि।' इत्थं जल्पन्तं जयन्तसिंह हर्षाश्रुधारां विमुञ्चन् सोलसूनुर्जगज्जनोद्गीतयशाः कृतज्ञः प्रकाममालिङ्गय सभायामित्याख्यत्-'भो धीमन्! मामकं यशःशरीरं शाश्वतमस्थिरेण द्रविणेन त्वयाऽत्यद्भुतधीमता देशान्तरे रक्षितं तत्सम्यगाचरितम्। ईदृशे सत्कृत्ये जातेऽपि बहुव्यये मनागपि न खेदमुपैमि, किन्तु तुष्यामि। अतोऽधुना सुकृतकारिणस्ते कामुपक्रियां विधाय सुकृती स्यामित्येव चिन्तयाम्यहम्। इति निगद्य सप्रमोदः स तस्मै दुकूलं करमुद्रिकां च दत्तवान्। यतः - 'निर्मलमनसां धियो विवेकतः कदाचिदपि नैव स्खलन्ति।' तदनन्तरं यशोमतीशस्तदीयवाञ्छातोऽधिकमेव धनं दत्त्वा मानधनाभिलाषी स पटीयांसं जयन्तसिंहं स्वसन्निधावेव ररक्ष। अथात्मबन्धुवर्गाणां पादपद्माम्भसा तच्छुद्धिचिकीर्षया मनीषिवर्यः स जगडूकः स्वावासकमनीयाङ्गणोव्या तं ग्रावाणममुश्चत्। तत्रावसरे भद्रपुराधिष्ठायको भद्रदेवो नव्यं भव्यं च योगीन्द्ररूपं विधाय तदीयोदारसद्गुणगणैर्हष्टचेता भिक्षायै तत्र श्रीजगडूनिवासाङ्गणे समुपागमत्। अपूर्वमागतं तमालोक्य राजप्रिया सद्भिक्षामस्मै दत्तवती सा राजल्लदेवी। तस्मिन्नवसरे स योगीन्द्रस्तामेवमुवाच-'भद्रे! त्वमिदानीं गृहेशं ममाग्रे समानय।' यतस्तेनैव मे महत्प्रयोजनं विद्यते। ____ अथ महत्यामुपवेशनशालायां तस्थिवांसं जगडूशाहं प्रति योगीन्द्रवात्ता व्यजिज्ञपत् सा राजलदेवी। यथा-कश्चिदङ्गणे योगीन्द्र आयिष्ट, स भवन्तं तूर्णं तत्राह्वयते। तदाकर्ण्य स मनस्येवमबोधत्, व्यक्तमुवाच च-अये! तस्य मदाह्वनेन किमपि प्रयोजनं नो पश्यामि। तेन यदपेक्ष्येत, यन्मार्गयेत तद् दातव्यं, तत्र मे किं प्रयोजनमिति। तदुक्तावसाने सा पुनरेवमुक्तवती-नह्येवमस्ति, न खलु स साधा 104
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy