________________
___ श्री जगडूशाह-चरित्रम् दुःखमयं वृत्तं व्याजहार।
अथ दुःखिनी प्रीतिमती पुनः प्रतिबोधयितुं प्रावर्त्तत विजया। तथाहि-अयि प्रीतिमति! त्वदुक्तरीत्या मनोगतिरीदृश्येव वर्त्तते। तथापि तत्पारतन्त्र्यं नीता एवास्मदादयः सर्वे संसारिणो जीवा नानाविधानि सुकृत्यानि कुर्मः। अयि! मनस्येतद्विचारय! यत्सर्वदा मनोऽधीना एव तिष्ठामो वयम्, यच्च कामयते मनस्तस्य पूत्यें च वयं कमुपायं नाऽऽचरामः, धर्माधर्मावपि नो विचारयामः। न वा सुखदुःखेऽपि गणयामः, पृष्ठे गुप्त्या स्थितां भयङ्करीमापदमपि न पश्यामः। अरे रे!! एतस्यैव मनसः किङ्करीभूता जीवाः क्रूरातिक्रूराणि कर्माणि कुर्वन्तो दुर्गतौ निपतन्ति। अतिदुरापं मानुष्यं जन्म लब्ध्वापि जीवास्तन्मुधैव गमयन्ति। सखि! यस्य मनसोऽधीनतायां वयं सदैव तिष्ठामः, तच्चापि स्वाधीनं कत्तुं किञ्चिदपि त्वं विचारं चकर्थ किम्? इत्युदीर्य तद्विषये प्रीतिमत्या विमर्श बुभुत्सुर्विजया मौनमाश्रित्य तस्थौ।
अथैतदुत्तरयति प्रीतिमती - सखि विजये! मनसोऽधीनास्तु सदैव व महे। तन्मनस्त्वस्माकमधीनं क्षणमात्रमपि न तिष्ठासति। अरे! एतन्मनो बहुधा प्रतिबोधयामि निरोधयामि चानवरतम्, परमेतत्प्रमत्तो दन्ती सादिनः शिक्षणमिव मनागपि नैव बुध्यते। ममैतन्निग्रहः शशविषाणवदेव प्रतिभाति। मादृशां जीवानां मनसो निरोधः सर्वथा दुराप एवास्ति।
विजया प्रजल्पति-प्रियसखि! न स्यादेवमिति नो जानीहि, शक्यते चैवमपि भवितुं। यद्यप्यादौ तन्निरोधे महती कठिनता बोभोति, यदेतन्निसर्गचपलं मन उच्छृङ्खलीभवत् पौनःपुन्येन विविधोत्पातं कुर्वनितरां बाधते, तथापि सन्तताभ्यासबलेन चञ्चलमपि मनः सुखेन स्थिरतामापाद्यते। भगिनि! सत्यं निगदामि, तदत्र लोके किमपि तथा नालोच्यते, यदनवरताभ्यासेन नो साध्येत।
87