________________
श्री जगडूशाह - चरित्रम् नो हरिः शङ्करो ब्रह्मा, चान्यथा कर्तुमर्हति ||१|| इति | या विपत्तिरवश्यंभाविनी तस्यामागतायां धैर्यावलम्बनमेव श्रेयस्करमवेहि, अमुना शरीरेण यथा सुखानि भुक्तानि भुज्यन्ते च, तथैव दुःखान्यपि भोक्तव्यानि । तत्र मनागपि व्याकुलत्वं न दर्शनीयं । भगिनि ! सततार्त्तध्यानेन पापमेव भृशं लगिष्यति । यदि त्वदीयमिदमसह्यं दुःखमपहत्तुं देवोऽपि नैव बिभर्त्ति शक्तिम्, तर्हि मानवी शक्तिः कियती? । अतः सर्वमेतत्सांसारिकं स्वप्नोपममैन्द्रजालिकं वा विस्मरन्ती केवलं धर्ममार्ग एव मनो योजयन्ती धर्मशास्त्रमधीताम्। धर्म्यवचने पयसि निर्मले स्नात्वात्मानं पुनीहि, धर्म्यकृत्यमेव सततमाचरन्ती सुखेन जीवनमिदं व्यत्येतु ।
विजया - सखि ! प्रीतिमति ! दुःखदावानलजाज्वल्यमानेऽत्र संसारे केवलमेवमेव दुःखम् । परिणयनस्यार्थं एव तथा लक्ष्यते, यदनेकविधोपाधिमध्ये निपतेत्, सुखलिप्सया दुःखजालबन्धनं च नयेत्। एवं सत्यपि तदेतद्वैषयिकं सुखं पयोमुखं गरलपरिपूर्णं कलशमिव निरतिशयसुखं जानाना जीवा दीपके शलभा इव निपतन्तो मरीम्रियन्ते तत्रैव । किञ्चात्र लोके जीवानां सुखदुःखयोभुक्तिरपि प्राक्तननिचितकर्मणां परिणतिरेव प्रतीयते । भवान्तरे चामुना जीवेनाऽज्ञानदशायां यावन्त्युपार्जितान्यशुभानि कर्माणि, तेषामशुभकर्मणां विपाकोदये देहेऽस्मिन् जीवेन मनागपि नो सन्तप्तव्यम्, किन्तु तज्जातानि फलानि दुःखमयान्यपि धीरतया सहनीयान्येव। मुधैव तदर्थं क्लेशो न करणीयः। येऽप्यज्ञानवन्तो जीवा दैवप्रातिकूल्यात्कष्टे समुपस्थिते दुर्ध्यायन्ति, ध्रुवं ते पापमेव बध्नन्ति । अतोऽहं निगदामि त्वं तथा मा भूः, किन्तु दानशीलतपोभावनेति चतुर्धात्मकं धर्ममाराधय । अमुनैव ते लौकिकं पारभविकं च कल्याणमुद्गमिष्यति । किञ्च धर्मशास्त्रमधीत्य ज्ञानं सम्पाद्य नैसर्गिकचाञ्चल्यवत्यमुष्मिन्मनसि नैर्मल्यं स्थैर्यं च प्रापय ।
84