________________
श्री जगडूशाह-चरित्रम्
विजया हि उद्वाहयोग्ये वयसि जातेऽप्यद्यापि कौमारव्रतमेव धत्ते। परिणयनविषये विचारान्तरमेवैषा निश्चितवती। अपरिणीतैव विषयदोषविमुखीभूय लोकेऽस्मिन् स्वातन्त्र्येण परमार्थकार्यं कुर्वती स्वात्मानं पुनीयामित्येव सा प्राधान्येन लक्ष्यीचक्रे। याश्च कामिन्यः सम्प्रति काले पतिता याताः, तासामुद्धृतिः कथङ्कारं सौलभ्येन मया कार्या, कथं वा स्त्रीसमाजं समुन्नतं कुर्वीय, कथमेताः साकल्येन स्वस्वकर्तव्यतां बुध्यन्ताम्। कथमेकोत्तमादर्शरूपिणी गृहिणीभूय निजगृहजीवने सुव्यवस्थापयन्ती, व्यवहारे पतिसेवायां निजसन्ततेः पालनलालनादौ चोच्चैस्तमादर्शरूपतां नीतेयं स्त्रीजातिरन्वर्थी स्त्रीरत्नतामुपेयात्। इमाश्च प्रशस्यसर्वोत्कृष्टं शाश्वतं मार्गमानेतुं कमुपायं करवाणीत्यादि भूयसी महीयसी विचारणैव निरन्तरं विजयामानसे प्रादुर्भवति, कादाचित्कोऽपि तदितराऽवमर्शस्तदागाधहृदयं नाश्रयतेतराम्। निजजीवनस्यैतदुद्देशनैयत्येन सत्युद्वाहे सांसारिके बन्धने वर्त्तनमपि नान्वमोदि तया। इति तस्या हृद्यं निश्चयं जानद्भ्यां तत्पितृभ्यामपि तदुद्वाहचर्चाऽत्याजि। स्वमादर्शभूतं कर्तुमना विजया नैकविधनीतिशास्त्र-धर्मशास्त्र-शब्दशास्त्रतर्कशास्त्र-काव्य-नाटक-वैद्यक-व्यावहारिक-प्रभृतीनि पापठीतितमाम्। क्रमशः कामिनीसमाजे पठनपाठनोपयोगमपि तन्तनीतितरामेषा। विजयेयमोशवंशालङ्कारिणी बालाऽऽसीत्। एतन्मातापित्रोर्गरीयसी सम्पदासीदत एतस्या गृहसम्बन्धिनी मनागपि चिन्ता नोदैत्काचिदपि। किञ्चेयं प्रीतिमतीव रूपलावण्यवती नाऽऽसीत्। किन्तु, दृढतरमना लावण्यशालिनी, मेधाविनी, तर्कविचारमालिनी, व्यावहारिके कृत्ये पटीयसी विदुषी मृदुभाषिणी स्त्रीणां सदैव सदुपदेशकरणदक्षिणा परमार्थानुरक्ताऽऽसीत्सैषा जन्मत एव। बाल्यादेवैषा पवित्रा परमोच्चश्रेणीमधिगता दौषैर्विमुक्ताऽभवत्।
1. विस्तार।
85